________________
॥१॥) भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिक: पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधाः, तद्यथा- काले विणए बहुमाने, उवहाणे तहा अणिण्हवणे । वंजणअत्थतदुभए, अट्ठविहो णाणमायारो ॥१॥' दर्शनाचारोऽप्यष्टधैव, तद्यथा- 'निस्संकियनिक्कंखिय निन्वितिगिच्छा अमूढदिट्ठी य । उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ ॥२॥' चारित्राचारोऽप्यष्टधैव:- 'तिन्नेव य गुत्तीओ पंच समिइओ अठ्ठ मिलियाओ । पवयणमाईया इमा तासु ठिओ चरणसंपन्नो ॥३॥” तपआचारो द्वादशधा, तद्यथा'अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥४॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि य अभिंतरओ तवो होई ॥५।।' वीर्याचारस्त्वनेकधः- ‘अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायव्वो वीरियायारो ॥६॥ एष पञ्चविध आचारः एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानीमाचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागाल:, आगालनमागाल:-समप्रदेशा-वस्थानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः, आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पण:, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्तव्यता
श्री आचारांग सूत्रम्
(०१५)