________________
दृश्यते । इदानीमङ्गम्, अज्य (ध) ते - व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्वादि, भावाङ्गमयमेवाचारः । इदानीमाचीर्णम्-आसेवितं, तच्च नामादिषोढ़ा, तत्र व्यतिरिक्तं द्रव्याचीर्णं सिंहादेस्तृणानिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्णं वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालाचीर्णं त्विदं, - 'सरसो चंदनपंको अग्घइ सरसा य गंधकासाई । पाडलिसिरीसमल्लिय पियाई काले निदाहंमि ।।१।।' (सरसश्चन्दन- पङ्कोऽर्घति सरसा च गन्धकाषायिकी । पाटलशिरीषभल्लिका: प्रियाः काले निदाघे ॥ १ ॥ ) भावाचार्णं तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचारग्रन्थः । इदानीमाजाति:, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानी - मामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः, कर्माष्टकोद्वेष्टनमशेषमेतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्त्तन्त इत्येकार्थिकाः, शक्रपुरन्दरादिवत् एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्घट्टनम्, उक्तं च- 'बंधाणुलोमया खलु सत्यंमि य लाघवं असम्मोहो । संतगुण-दीवणाविय एगट्ठगुणा हवंते ॥ १ ॥ ।।७।। (बन्धानुलोमता खलु शास्त्रे च लाघवमसंमोहः सद्गुणदीपनमपि च एकार्थगुणा भवन्त्येते । । १ । । ) इदानीं प्रवर्त्तनाद्वारं, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह
सव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए ।
सेसाइ अंगाई एक्कारस आणुपुव्वीए ॥८ ॥ सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति
भविष्यति च, ततः शेषाङ्गार्थं इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रन्थन्तीति ।।८।। इदानीं प्रथमत्वे हेतुमाह
आयारो अंगाणं पढमं अंगं दुवालसण्हंपि ।
श्री आचारांग सूत्रम्
(०१६)
-