________________
इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ ___ अयमाचारो द्वादशानामप्यङ्गानां प्रथमङ्गमित्यनुद्य कारणमाहयतोऽत्र मोक्षोपाय:-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सार: प्रधानमोक्षहेतुप्रति-पादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ।।९।। इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणि, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह
आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ।।१०।।
यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमं आद्यं प्रधानं वा गणिस्थानमिति ।।१०।। इदानीं परिमाणं- किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह
णवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥११॥
तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशसहस्रात्मको 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदःक्षायोपशमिकभाववर्यंयमाचार इति । सह पञ्चभिश्चूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनी चूडा, तत्र प्रथमा ‘पिंडेसण (१) सेज्जारियाभासज्जाया (२-३-४) य वसणा (५) य पाएसा (६) (पिंडसणसिज्जिरिया भासा वत्थेसणा य पाएसा इति प्र.) उग्गहपडिमत्ति (७)' सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, ‘बहुबहुरओ पदग्गेणं'ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाबहुः, निशीथाध्ययनपञ्चमचूलिकाप्रक्षेपाबहुतरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेणपदपरिमाणेन भवतीति ।।११।। इदानीमुपक्रमान्तर्गतं समवतारद्वारं, तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह
श्री आचारांग सूत्रम्
(०१७)