________________
आयारग्गाणत्थो बंभच्चेरेसु सो समोयरइ । सोऽवि य सत्थपरिणाए पिंडिअत्थो समोयरइ ॥१२॥
सत्थपरिण्णाअत्थो छस्सुवि काएसु सो समोयरइ । छज्जीवणियाअत्थो पंचसुवि वएसु ओयरइ ॥१३ ।।
पंच य महव्वयाइं समोयरंते य सव्वदव्वेसुं । सव्वेसिं पजवाणं अणंतभागम्मि ओयरइ ॥१४ ।।
उत्तानार्थाः, नवरम् ‘आचाराग्राणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादिनी पर्याया-अगुरुलघ्वादयः तेषामनन्तभागे व्रतानामवतार इति ।।१२-१३-१४ ।। कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति ? तदाह
छज्जीवणिया पढमें बीए चरिमे य सव्वदव्वाइं । ___ सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं ॥१५ ।। (षड्जीवनिकाय: प्रथमे द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ।) छज्जीवणिया इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह-‘णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं । छव्विहपरिवुड्डीए छट्ठाणसंखया सेढी ।।१।। अन्ने के पज्जाया ? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदब्भहिया ? । एवंपि होज तुल्ला णाणंतगुणत्तणं जुत्तं ॥३।। सेढीसु णाणदंसणपज्जाया तेर तप्पमाणेसा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ।।४॥ अयमासामर्थो लेशत:- नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानि तावद्भवन्ति, तेषां यज्जघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनभ:प्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं
___ श्री आचारांग सूत्रम्
(०१८)