________________
न शक्यते परिच्छेत्तुं । किं पुनः सर्वाण्यपीत्यत: केऽन्ये पर्यायाः ? येषामनन्तभागे व्रतानि वर्तेरन्निति । स्यान्मतिः, अन्ये केवल(लि)गम्या इति, इदमुक्तं भवति-केवल-गम्याप्रज्ञापनीयप-याणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति । अत्राचार्य आहु(- आहुः)-याऽसौ संयम-स्थानश्रेणिनिरुपिता सा सर्वा चारित्रपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणासर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायनन्तभागवृत्तित्वमित्यदोषः । इदानी सारद्वारं, कः कस्य सार इत्याह
अंगाणं किं सारो ? आयारो तस्स हवइ किं सारो ?। अणुओगत्थो सारो तस्सवि य परूवणा सारो ॥१६।।
स्पष्टा, केवलमनुयोगार्थो-व्याख्यानुभूतोऽर्थस्तस्य प्ररूपणायथास्वं विनियोग इति अन्यच्च
सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाबाहं जिणा बिंति ।।१७।।
स्पष्टैव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह
बंभम्मी य चउक्कं ठवणाए होइ बंभणुप्पत्ती । सत्तण्हं वण्णाण नवण्हं वण्णंतराणं च ॥१८॥
तत्र ब्रह्म नामादिचतुर्द्धा, तत्र नामब्रह्म ब्रह्मे त्यभिधानम्. असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्ट यज्ञोपवीताद्याकृतिमृल्लेपादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानां च वर्णानां नवानां च वर्णान्तराणामुत्पत्तिर्भणनीयेति । यथाप्रतिज्ञातमाह
एक्का य मणुस्सजाई रज्जुप्पत्तोइ दो कया उसमे । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९ ।।
श्री आचारांग सूत्रम्
(०१९)