________________
यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजाति:, तस्यैव राज्योत्पत्तौ भगवन्तमेवाश्रित्य ये स्थितास्ते क्षत्रिया:, शेषाश्च शोचनाद्रोदनाच्च शूद्राः, पुनरग्न्युत्पत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशना-द्वैश्याः भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, (जे राय अस्सिता ते खत्तिआ जाया, अणस्सिया गिहवइणो जाया,, जया अग्गी उप्पण्णो तया पागभावस्सिता सिप्पिया वाणियगा जाया, तेहिं तेहिं सिप्पवाणिज्जेहिं वित्तिं विसंतीति वइस्सा उप्पण्णा । भट्टारए पव्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया, णिस्सिता बंभणा जाया, माहणत्ति उक्कस्सगभावा धम्मपिआ जं च किंचिवि हणंत पिच्छति तं निवारेंति मा हण भो मा हण, एवं ते जणेण सुकम्मनिव्वत्तितसण्णा बंभणा जाया । जे पुण अणस्सिता असिप्पिणो असावगा ते वय खला इतिकाउं तेसु तेसु पओयणेसु हिंसाचोरियादियासुदुब्भमाणा सोगदोहणसीला सुद्दा संवत्ता (इति चूर्णि:) एते शुद्धास्त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ।। साम्प्रतं वर्णवर्णान्तर-निष्पनन्नं संख्यानमाह
संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो । एए दोवि विगप्पा ठवणा बंभस्स णायव्वा ।।२०।। ___ संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ।। साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह
पगई चउक्कगाणंतरे य ते हंति सत्त वण्णा उ । आणंतरेसु चरमो वण्णो खलु होइ णायव्वो ॥२१॥
प्रकृ तयश्चतस्र:-ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितो जातः प्रधान-क्षत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्रयाः प्रधान-संकरभेदौ वक्तव्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु
श्री आचारांग सूत्रम् .
(०२०)