________________
भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः ।। इदानीं वर्णान्तराणां नवानां नामान्याह
अवठ्ठग्गनिसाया य अजोगवं मागहा य सूया य । खत्ता (य) विदेहावि य चंडाला नवमगा हुंति ॥२२ ।। अम्बष्ठ उग्रः निषादः अयोगवं मागध: सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याह
एगंतरिए इणमो अंबट्ठो चेव होइ उग्गो य । बिइयंतरिअ निसाओ परासरं तं च पुण वेगे ॥२३ ।।
पडिलोमे सुद्दई अजोगव मागहो य सूओ अ ।
एगंतरिए खत्तो विदेहा चेव नायव्वा ॥२४ ।। बितियंतरे नियमा चण्डालो सोऽवि होइ णायव्वो ।
अणुलोमे पडिलोमे एव ए, भवे भेया ॥२५ ।।
आसामर्थो यन्त्रकादवसेयः तच्चेदम्ब्रह्मपुरुष: वैश्यास्त्री अम्बष्ठः, क्षत्रियः पुरुषः शूद्री स्त्री उग्रः, ब्राह्मण: पुरुषः शूद्री स्त्री निषादः पारासरो वा, शूद्रः पुरुषः वैश्या स्त्री अयोगवम्, वैश्य पुरुषः क्षत्रिया स्त्री मागधः, क्षत्रिय पुरुषः ब्राह्मस्त्री सूतः, शूद्रःपुरुषः क्षत्रिया स्त्री क्षत्ता, वैश्यपुरुषः ब्राह्मस्त्री वैदेहः, शूद्रपुरुषः ब्राह्मस्त्री चाण्डाल:, एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह
उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं ॥२६॥ सूएण निसाईए कुक्करसो सोतव होइ णायव्यो । एसो बीओ भेओ चउव्विहो होइ नायव्वो ॥२७ ।।
अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम् । (तच्च प्रथमचतुष्कोष्ठकादवगन्तव्यम् प्र.) उग्रपुरुषः क्षत्ता स्त्री श्वपाकः, विदेह पुरुषः क्षत्ता
श्री आचारांग सूत्रम्
(०२१)