Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 26
________________ तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यत् द्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिज्ञेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरण च रजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमत-स्त्विदमेवाध्ययनं ज्ञानक्रियारूपं, नोशब्दस्य मिश्रवाचित्वात्, प्रत्याख्यानभाव-परिज्ञापि तथैव, आगमत: पूर्ववत्, नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्यायते-यथा कश्चिद्राजा अभिनवनगरनिवेशेच्छया भूखण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवान्, तथा कचवरापनयने शल्योद्धारे भूस्थिरीकरणे पक्वेष्टकापीठ-प्रासादरचने रत्नाधुपादाने चोपदेशं दत्तवान्, ताश्च प्रकृतयस्तदुपदेशानुसारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान् बुभुजिरे, अयमत्रार्थोपनयः-राजसदृशेन सूरिणा प्रकृतिसदृश्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्व-कचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयम स्थिरीकृत्य पक्वेष्टिकापीठतुल्यानि व्रतान्यारोपणीयानि, ततः प्रासाद-कल्पोऽयमाचारो विधेयः, तत्रस्थश्चाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभाक् भवति । साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणलक्षणोपेतं सूत्रमु-च्चारणीयं, लक्षणं त्विदम्-'अप्पगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥१॥' (अल्पग्रन्थं महार्थं द्वात्रिंशद्दोषविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपपेतम् ।।१।।) सुयं मे आउसं ! तेणं (आमुसंतेणं, आवसंतेणं) भगवया एवमक्खायं इहमेगेसिं णो सण्णा भवइ ।।सू०१॥ इत्यादि, तच्चेदं सूत्रम्- सुयं मे आउसं ! तेणं भगवया एवमक्खायं इहमेगेसिं णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्यासंहितोच्चारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन ! तेन भगवता श्री आचारांग सूत्रम् (०२५)

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146