________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७ सप्तमं खण्डम् ] कौषीतक्युपनिषत् ।
त्याह नाहमेतं गन्धं प्राज्ञासिषमिति न हि प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतद्रूपं प्राज्ञासिषमिति न हि प्रज्ञापेतं श्रोत्रं शब्दं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं शब्दं प्राज्ञासिषमिति न हि प्रज्ञापेता जिहाऽन्नरसं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमन्नरसं प्राज्ञासिषमिति न हि प्रज्ञापेतौ हस्तौ कर्म किंचन प्रज्ञापयेतामन्यत्र मे मनोऽभूदित्याह नाहमेतत्कर्म प्राज्ञासिषमिति न हि प्रज्ञापेतं शरीरं सुखं दुःखं किंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतत्सुखं दुःखं प्राज्ञासिषमिति न हि प्रज्ञापत उपस्थ आनन्दं रतिं प्रजाति कांचन प्रज्ञापयेदन्यत्र मे मनोsभूदित्याह नाहमेतमानन्दं न रति न प्रजाति प्राज्ञासिषमिति न हि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापयेतामन्यत्र मे मनोऽभूदित्याह नाहमेतामित्यां प्राज्ञासिषमिति ।। न हि प्रज्ञापेतः प्राज्ञासिषमिति । वाक्पर्यायवत्पर्यायाष्टकं व्याख्येयम् ॥ विज्ञातव्यकामयोर्बुद्धिमन्तरेणानुपलम्भस्य सर्वजनीनत्वाद्धियमेवोररीकृत्याऽऽह
व हि प्रज्ञापेता धीः काचन सिध्येत् । न हि प्रज्ञापेता धीः काचन सिध्येत् । काऽपि विज्ञातव्यकामादिभेदभिन्ना धीरन्तःकरणवृत्तिः प्रज्ञापेताऽसाक्षिका न सिध्येन्न प्रजायेत नावगम्यत इत्यर्थः ॥ __ननु मिथोपेक्षावतामिन्द्रियतद्विषयमानप्रज्ञानां तुल्यत्वात्कथं प्राणोपाधिका प्रज्ञैवोपास्येति नियमोऽस्तीत्याशङ्कय प्रज्ञायामेवान्येषां कल्पितत्वमाह
न प्रज्ञातव्यं प्रज्ञायेत ॥ ७॥ . न प्रज्ञातव्यं प्रज्ञायेत प्रज्ञातव्यं धियो विषयो न प्रज्ञायेत न च गम्यते योग्यानुपलब्ध्या बुद्धेरभाव इत्यर्थः ॥ ७ ॥ ___ इन्द्रियैः सह प्रज्ञाया अभेदश्चेत्तर्हि तं मामायुरमृतमित्युपास्वेत्यत्र वाचनिकया रोत्या वागेवोपास्या स्यादित्याह
न वाचं विजिज्ञासीत । न वाचं विजिज्ञासीत वागिन्द्रियमुपास्स्वेत्येवं न विजिज्ञासीत न विचारयेन्नावगच्छेदित्यर्थः ।। तर्हि किमवगम्यमित्यत आह
. वक्तारं विद्यात् । वक्तारं वागिन्द्रियप्रेरकमानन्दात्मानं सर्वकरणवृत्तिसाक्षिणमित्यर्थः । विद्यात्प्रा
For Private And Personal