Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 651
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हंसोपनिषत् । फलान्येतानि पूर्वादिदलस्थस्याऽऽत्मनो विदुः । कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदा ॥ तत्र प्रणव उद्गीथो हुँ फड्कषडथ स्वधा । खाहा नमोऽमतं सप्त स्वराः षड्जादयो मताः ।। इति पूर्वादिपत्रस्थे फलान्यात्मनि षोडश" इति ॥ ७ ॥ स्थानान्तरेषु नियममाह मध्ये वैराग्यं केसरे जाग्रदवस्था कणिकायां स्वमं लिङ्गे सुषुप्तिः पनत्यागे तुरीयं यदा हंसो नादे लीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयत एवं सर्व हंसवशात्तस्मान्मनो विचार्यते स एव जपकोट्यां नादमनुभवत्येवं सर्व हंसवशाभादो दशविधो जायते चिणीति प्रथमं चिञ्चिणीति द्वितीय घण्टानादस्तृतीयं शङ्खनादश्चतुर्थ पञ्चमस्तत्रीनादः षष्ठस्तालनादः सप्तमो वेणुनादोऽष्टमो मृदङ्गनादो नवमो भेरीनादो दशमो - मेघनादो नवमं परित्यज्य दशममेवाभ्यसेत् ॥ ८ ॥ मध्य इति । परमात्मस्थानत्वात् । लिङ्गे नाले पुरीतति । पद्मत्यागे पद्मादूर्व निरालम्बप्रदेशे । नादे वक्ष्यमाणे। तुर्यातीतं तुरीयात्परमुन्मननं मननरहितम् । अजपोपसंहारं प्राणव्यापाररहितम् । त्रय एते पर्यायाः । एवं सर्वमित्यादि । एवं तुरीयातीतपर्यन्तमुक्तं सर्व फलं हंसवशाद्धंसनपनिवेदनाधीनं वेदितव्यं तस्मात्सर्वफलदत्वान्मनो हंसो मन एव हंसो हन्ति गच्छति । सप्तदशकं लिङ्गं मनो विचार्यते मनःस्वरूपमेव विचार्य निश्चेतव्यं येन त्वमर्थोऽवभासते । स एव हंसोपासको जपकोट्यां कोटिसंख्याकनपनिवेदनपूर्वकमनोनियमे सति नादं वक्ष्यमाणमनुभवति । तस्यैवेति पाठे हंसस्यैव । पुनरेवमित्यादिरुपसंहारः । नादहेतुत्वस्याधिकस्योक्तत्वात् । सप्रकारां नादोत्पत्तिमाह-नाद इति । चिण्यादयोऽनुकरणशब्दाः । इतिशब्दा अनुकरणत्वद्योतकाः । घण्टानादो घण्टाया इव नादः । एवमग्रेऽपि । नवमं परित्यज्येति । नवमपर्यन्तांस्त्यक्त्वा ब्रह्मभवनफलं दशममेवाभ्यसेत् ॥ ८ ॥ दशानां प्रत्येकं लक्षणानि फलानि चाऽऽह-- प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् । तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥९॥ पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे ॥ १० ॥ १ क. तुरीयाती' । २ ख. कोट्या ना । For Private And Personal

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663