Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 658
________________ Shri Mahavir Jain Aradhana Kendra ६०४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीशंकरानन्दविरचितदीपिका समेता ――― भवतः । एवं कृत्वा हृदयेऽष्टदले हंसमात्मानं ध्यायेत् ॥ २ ॥ अग्नीषोम पक्षावकारः शिरो * बिन्दुत्रिनेत्रमुखो रुद्रो रुद्राणी arit + are area पार्श्वे भवतः पश्यत्यनीकारं च शिनोभे पार्श्वे भवतः ॥ ३ ॥ एषोऽसौ परमहंसो भानुकोटिमतीकाशो येनेदं व्याप्तं तस्याष्टधा वृत्तिर्भवति पूर्वदले पुण्ये मति स्तेऽङ्गन्यासाः । हृदयादिश्चासावङ्गन्यासश्चेति हृदयाद्यङ्गन्यासः । करयोः संध्यङ्गुलीकरयोर्न्यासो हृदयाद्यङ्गन्यासश्च करन्यासश्च हृदयाद्यङ्गन्यास करन्यासौ । भवतः, स्पष्टम् । एवमुक्तेन प्रकारेण ऋष्यादिकरन्यासान्तं कृत्वा विधाय । हृदये हृदय कासारसरोरुहे + | हंसं बुद्धिप्राणमनउपाधिकम् । आत्मानं स्वयंप्रकाशानन्दरूपम् । ध्यायेद्ध्यानं कुर्यात् ॥ २ ॥ 1 अग्नीषोमो व्याख्यातौ । पक्षौ दक्षिणवामभागौ पक्षाविव पतत्रिणः पक्षौ । ओंकारः प्रणवः । शिरो मस्तकम् । उरःस्थलं बिन्दुरोंकारस्य पञ्चमी मात्रा । त्रिनेत्रमुखः, त्रिनेत्रो भगवानुमापतिर्मुखं यस्य स त्रिनेत्रमुखः सूर्यसोमानय स्त्रीणि वा नेत्राणि मुखे यस्य स त्रिनेत्रमुखः । रुद्रः, रुं दुःखं द्रावयति विनाशयतीति रुद्रः । रुद्राणी रुद्रस्य भार्या । चरणौ पादौ । * द्विविधं द्विप्रकारं समाधिं संप्रज्ञातमसंप्रज्ञातं च । कङ्कतः कङ्कोऽत्र कङ्कसदृज्ञो हंस इत्यर्थः । कुर्यात्, स्पष्टम् । इत एतस्माद्विविधात्समाधेरनन्तरम् । पश्यति साक्षात्करोति । अनाकारं च, आकारातीतं सत्यज्ञानादिलक्षणं चकार आधारचक्रादीनां समुच्चयार्थः । अनाकारश्चेति पाठे हंसो निराकारो भवतीति शेषः । शिनोभे शिश्नस्य द्वे आपादमस्तकं वर्तमाने । पार्श्वे, पक्षौ । भवतः स्पष्टम् || ३ || प्रत्यक्षो बुद्धेर्दष्टा हंसाख्य एष ज्ञायमानः । असौ परोक्षः शास्त्रैकगम्यः । परमहंसः, व्याख्यातः । भानुकोटिप्रतीकाशः सूर्यकोटिसमानप्रभः स्वयंप्रकाश इत्यर्थः । इदानीं परिच्छेदं वारयति - येन हंसाभिन्नेन परमहंसेन स्वयंप्रकाशेन । इदं विविधशब्दप्रत्ययगम्यं सशब्दप्रत्ययम् । व्याप्तमाकाशेनेव घटादिकमन्तर्बहिर्वृतम् । तस्य हंसस्य बुद्ध्युपाधिकस्य वस्तुतः परमहंसेनाभिन्नस्य । अष्टधाऽष्टप्रकारा | हृदयपद्मस्याष्टदलान्तः । वृत्तिर्गतिः । भवति स्पष्टम् । पूर्वदले हृदयपुण्डरीकस्य पूर्वस्यां दिशि स्थिते पत्रे वर्तमानस्य । पुण्ये शुभे कर्मणि सुखैकफले । मतिः, For Private And Personal * बिन्दुस्तु नेत्रं मुखं रुद्र इति पाठः । + एतदादि भवत इत्यन्तानि पदानि व्याख्याकृता न गृहीतानि किं तु तत्स्थानेऽन्यान्येव गृहीत्वा तानि व्याख्यातानीति तदनुरोधेन मूलेऽपि क्वचि - तानि सन्तीत्यनुमयिते । * अनागारश्च शिष्टोभयपार्श्वे इति पाठः । + अटदल इत्यस्य व्याख्यानं त्रुटितम् । * एतदादिकानिचित्पदानि मूले नोपलभ्यन्ते तत्स्थानेऽन्यान्येवोपलभ्यन्ते ।

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663