Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 656
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीशंकरानन्दविरचितदीपिकासमेतातिलेषु तैलमिव तं विदित्वा न मृत्युमेति । गुदमवष्टभ्याssधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरक गत्वाऽनाहतमतिक्रम्य विशुद्धौ प्राणानिरुध्याऽऽज्ञामनुध्यायन्ब्रह्मरन्धं ध्यायंस्त्रिमात्रोऽहमित्येवं सर्वदा ध्यायनयो नादमाधाराब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशः स वै ब्रह्म तेषु सर्वेषु वढेरभिव्यक्तिर्दुष्करा ततस्तिलेषु तैलदृष्टान्तमाह-तिलेषु तैलं स्पष्टम् । इव दृष्टान्ते । तं हंसं सर्वदेहव्याप्तं प्राणबुद्ध्यपाध्यतीतम् । विदित्वा साक्षात्कृत्य । न मृत्यु मरणकारणं संसारमेति न गच्छति । इदानीमेतत्प्रतिपत्त्यर्थं योगमाहमुदं पायुद्वारं सशिनद्वारं स्वपाणि(ष्णि)भ्यामवष्टभ्य निरुध्य पादाङ्गुष्ठाद्वायुमाधारचक्रे गुरूपदिष्टेन मार्गेण । तत आधारानुदलिङ्गान्तर्वर्तिनः शरीरशाला(?). वायुस्तम्भप्रतिष्ठास्थानाच्चतुर्दलाधाराच्छिद्राकारात् । वायु प्राणप्रभञ्जनम् । उत्थाप्य गुरूपदिष्टेन मार्गेणोवं विनीय । स्वाधिष्ठानं पट्टलं चक्रं नाभिसमीपस्थं चित्रवर्णम् । त्रित्रिवारम् । प्रदक्षिणीकृत्य वायुगूहमाधार उत्थापितं प्रादक्षिण्येन नीत्वा । मणिपूरकं नाभेरुपरिप्रदेशस्थं दशदलचक्रं गुरूपदिष्टेन मार्गेण गत्वा प्राप्य । ततोऽपि गुरूपदिष्टेन मार्गेणानाहतचक्रे गते ततोऽनाहतं द्वादशदलं चक्रं हृदयपद्मसमीपस्थं गुरूपदिष्टमार्गेणातिक्रम्यातीत्य गत्वा । विशुद्ध(द्धौ) षोडशदले चक्रे कण्ठस्थे चित्रवर्णे । प्राणानाधारादागतान्वायुभेदान् । प्रणवमात्राभिः सुशिक्षिताभिर्गुरूपदिष्टाभिनिरुध्यावरोधं कृत्वा तत आज्ञामाज्ञाचक्रं द्विदलं भूसंधिस्थम् । अनुध्यायन्पश्चाद्गच्छन् । सहस्रदलचक्रं चित्रवर्ण गुरूपदिष्टं मूर्धस्थं गच्छेत्तत्र गतस्ततो ब्रह्मरन्धं ब्रह्मणः स्वयंप्रकाशस्याऽऽनन्दात्मनो रूपलब्धौ रन्धं सुषिरं कपालपुटत्रयस्य संधिरूपं सहस्रदलकर्णिकामध्यवर्ति गुरूपदिष्टं च सुषुम्नाग्रम् । ध्यायन्विजातीयप्रत्ययशून्यं सजातीयप्रत्ययप्रवाहं कुर्वन् । ध्यानप्रकारमाहत्रिमात्रस्तिस्रोऽकारोकारमकाराख्या विश्वतैजसप्राज्ञाद्यविनाभूता मीयन्त आत्मसाक्षात्कारोपायत्वेनेति मात्रा यस्य ममोंकारादभिन्नस्य सोऽहं त्रिमात्रोऽहम् । अहं सः । इत्यनेन प्रकारेण । एवमुक्तप्रकारम् । सर्वदा निरन्तरम् । ध्यायन्ध्यानं कुर्वन् । निरुपायं प्राप्यत इत्यत उपे(पा?)यमाह-अथो यस्मान्निरुपायो हंसो नादात्मा स्यात्तस्मात् । नादमुक्तम् । आधारादुक्तात् । ब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रमुक्तं तत्पर्यन्तं तदवसानम् । शुद्धस्फटिकसंकाशः शुद्धोऽशेषदोषशून्यः स्फटिकः शुभ्रतमः पाषाणः शुद्धश्चासौ स्फटिकश्चेति शुद्धस्फटिकः । तत्संकाशस्तद्वर्णः । ध्यानार्थमयं वर्णः । स उक्तो नादः । वै प्रसिद्धः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यं For Private And Personal

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663