Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 659
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हंसोपनिषत् । राग्नेये निद्रालस्यादयो भवन्ति यामे क्रौर्ये मतिनैर्ऋते पापे मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये रतिमीतिरीशाने द्रव्यादानम् ॥ ४ ॥ मध्ये वैराग्यं केसरे जाग्रदवस्था कणिकायां स्वयं लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयं यदा हंसो For Private And Personal ६०५ इदमेवानुष्ठास्यामि नान्यदिति बुद्धिर्भवतीति शेषः । [ आग्नेये ] आग्नेय्यां दिशि स्थिते दले वर्तमानस्य । निद्रालस्यादयः, निद्रा बाह्यानां शब्दादीनां श्रोत्रादीन्द्रियैरग्रहणरूपाऽऽलस्यं सति सामर्थ्य विषये च तदुपभोगपराङ्मुखत्वमादिशब्देन वैचित्र्यक्रोधमूर्छादयो निद्रा चाssलस्यं च तदादयश्च निद्रालस्यादयः । भवन्ति स्पष्टम् । या दक्षिणस्यां दिशि वर्तमाने दले स्थितस्य । क्रौर्ये क्रूरो हिंस्रस्तस्य भावः क्रौर्य तस्मिन् । मतिर्ब्राह्मणं हन्मीत्यादिका बुद्धिः सति द्वेषेऽसति वा भवतीति शेषः । नैर्ऋते नैऋत्यां दिशि वर्तमाने दले स्थितस्य । पापे परद्रव्यापहारे परदारगम नादौ च । मनीषा बुद्धिर्भवतीति शेषः । वारुण्यां पश्चिमायां दिशि वर्तमाने द स्थितस्य | क्रीडा राजाबलादिलीला । भवतीति शेषः । वायव्ये वायव्यां दिशि वर्तमाने दले स्थितस्य । गमनादौ गमनं देशाद्देशान्तरसंचारः । आदिशब्देन विषयसेवनादिकम् । गमनं च तदादिश्व तस्मिन् । बुद्धिस्तत्र यास्यामि तदुपभोग्यं लप्स्य इत्यादिमतिर्भवतीति शेषः । सौम्य उत्तरस्यां दिशि वर्तमाने दले स्थितस्य । रतिप्रीतिः, रतौ रागे योषिद्मनलक्षणे स्रक्चन्दनादिसेवाजन्ये च प्रीतिः प्रेमविशेषो रतिप्रीतिः । भवतीति शेषः । [ ईशाने, ] ऐशान्यां दिशि वर्तमाने दले स्थितस्य । द्रव्यादानं स्वकीयस्य द्रव्यस्याऽऽदानम् । वाणिज्यादिपुरःसरं स्वीकारो द्रव्यादानं लुब्धतेत्यर्थः । भवतीति शेषः ॥ ४ ॥ मध्ये दलाष्टकस्यान्तराले वर्तमानस्य । वैराग्यं लोकद्वयविषयवैतृष्ण्यम् । भवतीति शेषः । मध्येऽपि वर्तमानस्य त्रेधा स्थितिर्भवति तामुररीकृत्यावस्थात्रयमाह - केसरे कर्णिकायाः परितो वर्तमानं क्षुद्रदलाकारं केसरं तस्मिन्वर्तमानस्य । जाग्रदवस्था समनस्केन्द्रियैर्बाह्यस्य विषयस्य ग्रहणं भवतीति शेषः । कर्णिकायां केसराणामन्तर्गतस्थान उन्नते कनककुसुमाभे विविधवासनाचिते स्थितस्य । स्वमं मानसवासनाप्रदर्शितविषयभोगः । भवतीति शेषः । लिङ्गे कर्णिकाया अपि मध्यप्रदेशे सूक्ष्मतमेऽन्नपरिणामे लोहितपिण्डे स्थितस्य । सुषुप्तिः, बाह्यान्तरविषयानुपपलम्भो भवतीति शेषः । पद्मत्यागे, अष्टदलस्य सकेसरकर्णिकालिङ्गस्य हृदयपद्मस्य त्यागे नाहमत्रास्मि किंतु सर्वत्र सर्वात्मको देशकालवस्तुपरिच्छेदशून्यः स्वयंप्रकाश आनन्दात्मेति बुद्ध्या परित्यागे । तुरीयं संख्याशून्यमप्यवस्थानं जागरणस्वप्नसुपुप्तापेक्षया चतुर्थं भवतीति शेषः । यदा यस्मिन्काले । हंसः कर्ता भोक्ता प्रमा

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663