Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 661
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हंसोपनिषत् | नवमं परित्यज्य दशममेवाभ्यसेत् ॥ ५ ॥ तस्मिन्मनो । विलीने मनसि गते संकल्पविकल्पे दग्धे पुण्ये पापे सदाशि - aist + शक्त्यात्मा सर्वत्रावस्थितः शान्तः प्रकाशयतीति वेदवचनं भवति वेदवचनं भवति ।। ६ ।। इत्यथर्ववेदे हंसोपनिषत्समाप्ता ॥ ३३ ॥ ६०७ मेघध्वनिवन्नादो मेघनादः । न चैवं दशापि नादा अभ्यसनीया इत्याशङ्कय नेत्याह । नवमं नवसंख्यापूरकं चिणित्यारम्य मृदङ्गनादपर्यन्तं नादकुलम् । परित्यज्य सर्वतस्त्यक्त्वा । दशममेव मेघनादमेव गुरूपदेशक्रमेण हंसध्वनिं सर्वतिरस्कार कारण - मभ्यसेदाविर्भवेत् ॥ १ ॥ तस्मात्तस्मिन्मेघनाद आनन्दात्मनि विश्वव्याप्ते स्वयंप्रकाशे । मनोविलीने | मनसि नामरूपकर्मविहीने जलराशाविवोदबिन्दौ सति । कारणाभावात्कार्याभाव इत्याह-मनसि संकल्पविकल्पकारणे । गते मेघनादात्संज्ञानाग्निदग्धे । संकल्पविकल्पे, इदं मे स्यादित्यादिः संकल्पः । इदमनिदं नेत्यादिविकल्पः । संकल्पश्च विकल्पश्च संकरूपविकल्पं तस्मिन्दग्धे भस्मीकृते संकल्पविकल्पयोरभावात्पुण्यपापयोरप्यभाव इत्याहपुण्ये शुभहेतौ शुभ कर्मणि । पापे दुःखहेतो विपरीते कर्मणि दग्ध इति देहलीप्रदीपन्यायेन पुण्यपापाभ्यामपि संबध्यते । ततः किमवशिष्यत इत्याह- सदाशि वोऽहम्, कालत्रयेऽपि मङ्गलरूप आनन्दात्माऽहम् । एतदशेषं येन रूपेणावस्थितं स्यात्तद्रूपं श्रुतिराह -- शक्त्यात्मा शक्तिः स्वयंप्रकाशा सैवाऽऽत्मा स्वरूपं यस्य स शक्त्यात्मा । सर्वत्रावस्थितो देशकालवस्तुपरिच्छेदशून्यत्वेनावस्थानं गतः । शान्तो ऽविद्यातत्संस्कारहीनत्वेन सर्वोपद्रवरहितः । प्रकाशयति स्वात्मन्यध्यस्तमविद्यातत्कार्यजातं प्रत्याययति स्वात्मरूपेण । इत्यनेन प्रकारेण वेदवचनं वेदस्य भगवतः सर्वज्ञस्य वचनमाज्ञारूपं वाक्यम् । भवति स्पष्टम् । अभ्यास उपनिषत्समाप्त्यर्थः ॥ ६ ॥ For Private And Personal * एतदग्रे 'प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् । तृतीये स्वेदनं याति चतुर्थे कम्पते शिरः । पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे । अदृश्यं नवमे देहं दिव्यचक्षुस्तथाऽमलम् । दशमं परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ' इति श्लोकत्रयमधिकं मूल उपलभ्यते तच्च नारायणकृतदीपिकायां व्याख्यातम् । मनो विलीयत इति पाठो दृश्यते क्वचित् । * एतत्पदं नोपलभ्यते । + इदं पदं क्वचिन्नास्ति । * एतदादिग्रन्थस्थाने क्वचित्स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति । ॐ वेदप्रवचनं वेदप्रवचनमितीति पाठ उपलभ्यते ।

Loading...

Page Navigation
1 ... 659 660 661 662 663