Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 655
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। हंसोपनिषत् । श्रीशंकरानन्दविरचितदीपिकासमेता । * अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः। ब्रह्मचारिणे दान्ताय गुरुभक्ताय(क्तये) हंस हंसेति सदाऽयं सर्वेषु देहेषु व्याप्तो वर्तते। यथा ह्यमिः काष्ठेषु हंसोपनिषदो व्याख्यां करिष्ये हंस एव सन् । संबन्धाद्युपनिषदां विज्ञेयं तुल्यमत्र तत् ॥ १ ॥ अथाधिकारसंपत्त्यनन्तरम् । हंसपरमहंसनिर्णयं हन्ति गच्छति संसारकासारमिति हंसः । परममुत्कृष्टमज्ञानं सकार्य ससंस्कारं हंसस्य स्वात्मतादात्म्यज्ञानाद्धन्ति विनाशयतीति परमहंसः । हंसश्च परमहंसश्च हंसपरमहंसौ त्वंतत्पदार्थों तयोनिर्णयो याथाम्यनिश्चयस्तं वाक्यार्थज्ञानमित्यर्थः । व्याख्यास्यामो विस्पष्टमासमन्तात्प्रकथयिप्यामः । अथशब्दसूचितमधिकारिणमाह-ब्रह्मचारिणे ब्रह्मचर्ययुक्ताय पारमहं. स्याश्रमवर्तिन इत्यर्थः । ब्रह्मचर्ये निमित्तमाह-दान्ताय, उपरतबाह्येन्द्रियव्यापाराय । उपलक्षणमिदं शान्तत्वादीनाम् । तत्रापि हेतुमाह-गुरुभक्ताय(क्तये) गुरुजीवब्रह्मणोस्तादात्म्यलक्षणोऽर्थस्तस्योपदेशोऽपि स एव तस्मिन्भक्तिः कायेन मनसा वाचा तदेकपरत्वं यस्य स गुरुभक्त(क्ति)स्तस्मै । इदानी हंसस्वरूपं वक्तुमाह-हंस इंसेति ब्यक्षरो मन्त्रो जीवेन जप्यमानस्तस्य प्राणिभेदापेक्षयाऽभ्यासो हंस हंसेति । [इति]शब्दोऽनुकरणार्थः । व्याहरनिति शेषः । सदा यावदेहावस्थानम् । अयं बुद्धिप्राणोपाधिकः । सर्वेषु निखिलेषु । देहेषु स्थावरजङ्गमशरीरेषु । व्याप्तो व्याप्तं प्राप्त आकाशवद्वर्तते वर्तनं करोति । आदावन्ते च देहस्य यद्यपि वर्तत एव तथाऽपि देहस्याभावाद्देहे न वर्तते तदभिप्रायमिदं सदा देहेषु व्याप्तो वर्तते । देहव्याप्तिवर्तने दृष्टान्तः । यथा दृष्टान्ते । हि प्रसिद्धः । अग्निर्वह्निः । काष्ठेषु दारुषु । * गौतम उवाच-भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥१॥ सनत्सुजात उवाच-विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः । पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥ अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् । हंसस्य गतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥ इति ग्रन्थोऽथेत्यस्मात्प्रागधिकः क्वचित् । अयं च नारायणकृतदीपिकायां व्याख्यातोऽस्ति । + एतदने शान्तायेत्यधिकं कचित् । For Private And Personal

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663