Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 650
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५९६ नारायणविरचितदीपिकासमेताशिर उत्तमाङ्गत्वात् । बिन्दुस्तु नेत्रं प्रकाशकत्वात् । हकारेऽनुस्वारो ब्रह्मवाचकः । " अं ब्रह्म परमः शिवः " इति कोशः । ब्रह्म च प्रकाशकम् । वर्तुलत्वं निन्दोनेंत्रता । मुखं रुद्रो वक्रत्वात् । रुद्राणी चरणौ सर्वाधारत्वात् । बाहू कालश्च तावन्तकः सर्वादातृत्वात् । अग्निश्चोभे पाधै भवतः । चाद्वायुः पूर्वापरे दक्षिणोत्तरे वा सोष्म. त्वसामान्यात् । वायोः कुक्षिनिष्ठत्वाच्च । पश्यति दृशिधातोर्लक्षणया ज्ञानमनागारोऽनिकेतो वैराग्यं ते अवशिष्टे उभयपाधै भवतः पूर्वापरे दक्षिणोत्तरे वा ॥ ६ ॥ ध्यानमुपसंहरति एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं व्याप्त तस्याष्टधा वृत्तिर्भवति पूर्वदले पुण्ये मतिरानेये निद्रालस्यादयो भवन्ति याम्ये क्रूरे मतिनैर्ऋत्ये पापे मनीषा वारु- . ण्या क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये रतिप्रीतिरी. शाने द्रव्यादाने ॥ ७॥ एषोऽसाविति । जीवपरमात्मनोरभेदाद्धंसस्य परमहंसता । भान्विति । “न तत्र सूर्यो भाति " इत्यादिश्रुतेः । येनेति । स्वस्मिन्नध्यस्तत्वात् । तस्याष्टम दलेषु स्थितस्याष्टधा वृत्तिमाह-तस्येति । तत्तद्दिक्पालबुद्ध्यनुसारेण फलं बोद्धव्यम् । इदं च दिगभिप्रायेण सामान्यतः फलमुक्तं तत्तद्दलाभिप्रायेण तु विशेषतः फलमध्यात्मविवेक उक्तम् । तद्यथा-"गुदलिङ्गान्तरे चक्रमाधारे तु चतुर्दलम् । परमः सहजस्तद्वदानन्दो वीरपूर्वकः ॥ योगानन्दश्च तस्य स्यादीशानादिदले फलम् । स्वाधिष्ठानं लिङ्गमूले षट्पत्रं चक्रमस्य तु ॥ पूर्वादिषु दलेप्वाहुः फलान्येतान्यनुक्रमात् । प्रश्रयः करता गर्वनाशो मूछो ततः परम् ।। अवज्ञा स्यादविश्वासो जीवस्य चरतो ध्रुवम् । नाभौ दशदलं पद्मं मणिपूरकसंज्ञकम् ॥ सुषुप्तिरस्य तृष्णा स्यादीp पिशुनता तथा । लज्जाभयघृणामोहकुधियोऽथ विषादिता ॥ हृदयेऽनाहतं चक्र दलै‘दशभिर्युतम् । लौल्यं प्रणाशः कपटं वितर्कोऽप्यनुतापिता ॥ आशाप्रकाशश्चिन्ता च समीहा समता ततः । क्रमेण दम्भो वैकल्यं विवेको हुंकृतिस्तथा ।। For Private And Personal

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663