Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 648
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५९४ नारायणविरचितदीपिकासमेतामिरुध्याऽऽज्ञामनुध्यायन्ब्रह्मरन्धं ध्यायंस्त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन्नथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशं स वै ब्रह्म परमात्मेत्युच्यते ॥ ४ ॥ ब्रह्मचारिण इति । व्याख्यानक्रियया ब्रह्मचारिणमभिप्रैति । तेन संप्रदाने चतुर्थी। इंसहंसेति । हं प्राणवृत्तिः सोऽपानवृत्तिः सदा नित्यमयं प्राण आत्मा सर्वेषु स्त्रीपुरु. पतिर्यकीटादिदेहेषु व्याप्तः पूरयिता वर्तते ।। तदुक्तमीशेन-"उच्छवासे चैव निःश्वासे हंस इत्यक्षरद्वयम् । तस्मात्प्राणस्तु हंसाख्य आत्माकारेण संस्थितः । नाभेरुच्छासनिश्वासा हृदयाग्रे व्यवस्थिताः " इति ॥ ऊर्ध्वश्वास उच्छ्वासः प्राणो नीचैः श्वासो निःश्वासोऽपानः । तमात्मानम् । गुदं पायुमवष्टभ्य रुद्ध्वाऽऽधारान्मूलाधारचक्राद्वायुं प्राणाख्यमुत्थाप्योर्ध्वमवष्टभ्य । अवष्टम्भनोपायो योगयाज्ञवल्क्य उक्तः "दक्षिणेतरगुल्लेन सीवनी पीडयेदृढम् । अधस्तादण्डयोः सूक्ष्मां सव्योपरि च दक्षिणः ॥ जङ्घोर्वोरन्तरं गार्गि निश्छिद्रं बन्धयेदृढम् । समग्रीवशिरस्कन्धः समपृष्ठः समोदरः" इत्यादि । वायोरुत्थापनं त्वाधारस्वाधिष्ठानयोरन्तरेऽग्निकुण्डं तन्मूले मनो दध्याधत्र मनस्तत्र प्राण आयाति प्राणवायुयोगेनाग्निर्दीप्यते स चोर्ध्वज्वलनस्वभावस्तस्मिंश्च ज्वलिते वायुरूवं गच्छति ततः षट्चक्रभेदो भवति । स्वाधिष्ठानं लिङ्गचक्रं त्रिः प्रदक्षिणीकृत्य । त्रिरावृत्ता तत्र कुण्डलीत्यत एव वचनादनुमीयते । तदुक्तं दीक्षापटले "ततो वेधमयीं वक्ष्ये दीक्षां संसारमोचनीम् । ध्यायेच्छिष्यतनोर्मध्ये मूलाधारे चतुर्दले ॥ त्रिकोणमध्ये विमले तेजस्त्रयविजृम्भिते । वलयत्रयसंयुक्तां तडित्कोटिसमप्रभाम् ।। शिवशक्तिमयी देवी चेतनामात्रविग्रहाम् । सूक्ष्मात्सूक्ष्मतरां शक्तिं भित्त्वा षट्चक्रमञ्जसा ॥ गच्छन्ती मध्यमार्गेण दिव्यां परशिवावधि । वादिसान्तदलस्थाान्संहरेत्कमलासन" इत्यादि । कुण्डल्यनुसारेण वायोरपि चोर्ध्व गच्छतस्त्रिःपरिवृत्तिः । मणिपूरकं नामिचक्रं गत्वा प्राप्यानाहतं हृच्चक्रं तदतिक्रम्य विशुद्धौ कण्ठदेशे प्राणान्वायून्निरुध्याऽऽज्ञामाज्ञाचक्र भ्रूमध्यवर्त्यनुध्यायन्ब्रह्मरन्धं च सहस्रदलपङ्कजे ध्यायस्त्रिमात्र ओंकारोऽहमित्येव सर्वदा For Private And Personal

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663