Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 649
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हंसोपनिषत् । ५९५ नित्यं ध्यायनथो नादं ध्यायन्कीहशमाधारमारभ्य ब्रह्मरन्ध्रपर्यन्तं प्रतीयमानं तथोज्ज्वलं स वै नादो ब्रह्म प्राणात्मा परमात्मैव ॥ ४ ॥ हंसमन्त्रस्यादिकमाह अथ ईस ऋषिरव्यक्तगायत्रीछन्दः परमहंसो देवता हमिति पीजं स इति शक्तिः सोऽहमिति कीलकम् । पदसंख्ययाऽहोरात्रयोरेकविंशतिसहस्राणि षट्शतान्यधिकानि भवन्ति सूर्याय सोमाय निरञ्जनाय निराभासाय तनुसूक्ष्मप्रचोदयादित्यग्नीषोमाभ्यां वौषहृदयाघान्यासकरन्यासौ भवतः। एवं कृत्वा हृद येऽष्टदले हंसात्मानं ध्यायेत् ॥५॥ अथ हंस इति । अन्यत्र तु भिन्ना ऋष्यादय उक्ताः। यथा-"ऋषिब्रह्मा स्मृतो दैवी गायत्री छन्द ईरितम् । देवता जगतामादिः संप्रोक्तो गिरिजापतिः” इति ॥ द्वयं तस्य बाह्यपुरश्चरणविषयं ज्ञातव्यम् । षट्संख्यया ऋष्यादयो ज्ञेया इति शेषः । यद्वा षट्शतानि षटसंख्ययाऽधिकानि भवन्तीत्यन्वयः । षट्शतोपरि षडित्यर्थः । २१६०६ इत्यङ्कतः । अमृतबिन्दौ तु "अशीतिः षट्शतं चैव सहस्राणि त्रयोदश । __ लक्षश्चैकोऽपि निःश्वासा अहोरात्रप्रमाणतः" ॥ इति संख्याभेद उक्तः स तत्रैव समाहितः । तद्गायत्र्यैव षडङ्गान्याह-ॐ सूर्याय हृदयाय नमः । ॐ सोमाय शिरसे स्वाहा । ॐ निरञ्जनाय शिखायै वषट् । ॐ निराभासाय कवचाय हुम् । ॐ तनुसूक्ष्म नेत्रत्रयाय वौषट् । ॐ प्रचोदयादत्राय फट् । एभिरेवाऽऽदौ करन्यासः । हंसो मामित्यादिना षडङ्गानीत्यपरे । मां सूर्यात्मने हृदयाय नमः । ही सोमात्मने शिरसे स्वाहा । इत्यादिनेत्यन्ये । अग्नीषोमाभ्यां वौषडिति षण्मन्त्रशेषः । हमग्निः सः सोमो हं पुमान्प्रकृतिस्तु स इति चोक्तम् । हृदयादीनि यान्यङ्गानि तेषां न्यासः करन्यासश्च तौ भवतः । एवं न्यासं कृत्वा हृदयेऽष्टदलं तत्र हंसात्मानं ध्यायेत् ॥ ५ ॥ ध्येयस्वरूपमाह अग्नीषोमौ पक्षावोंकारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्चाग्निश्चोभे पार्थे भवतः पश्यत्यनागारश्च शिष्टोभयपाधं भवतः ।। ६ ॥ अमीषोमाविति । हंसस्य पक्षित्वात्पक्षिरूपेण ध्यानं ताभ्यां जगस्प्रवृत्तेरोंकारः For Private And Personal

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663