Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 634
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५८० नारायणविरचितदीपिकासमेता मय्यग्नेऽग्निमिति चाथो अग्नीन्समारोपयेव्रतवान्स्यादतन्द्रित इति ॥ १॥ सत्र श्लोकाः-ब्रह्मचर्याश्रमे खिन्नो गुरुशुश्रूषणे रतः। वेदानधीत्यानुज्ञात उच्यते गुरुणाऽऽश्रमी॥ दारमाहृत्य सदृशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिं यजेचासामहोरात्रेण निर्वपेत् ॥ संविभज्य सुतान¥ाम्यकामान्विसृज्य च । चरेत वनमार्गेण शुचौ देशे परिभ्रमः ।। इधीमहि ह्युमन्त देवाजरम् । यद्घ सा ते पनीयसी समिहीदयति छवि । इष स्तोतृभ्य आ भर ॥ ८८ ॥ चन्द्रमा अप्वन्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ८९ ॥(२८) चतुर्थोऽनुवाकः ॥ चतुस्त्रिंशः प्रपाठकः ॥ काण्डमष्टादशम् ॥ तैरेतैर्मन्त्रैरुपतिष्ठते । मय्यग्न इति । मय्यग्नेऽग्निं गृह्णामि सह क्षत्रेण वर्चसा । बलेन मयि प्रजा मय्यायुर्दधामि स्वाहेति मन्त्रेणाथो अग्नीन्समारोपयेदात्मानौ निवे. शयेत्समारोपणेन व्रतवान्स्याद्भवेत् । तन्द्राऽऽलस्यं तद्रहितोऽतन्द्रितः । इतिरर्थसमाप्तौ ॥ १ ॥ .. मन्त्राणां संमतिमाह-तत्रेति । प्रथमत आश्रमक्रमेण ब्रह्मचारिगृहस्थवनस्थलक्षणद्वारा संन्यासपीठिकामाह-ब्रह्मेति । वेदं वेदो वेदश्चित्येक शेषः । अधीत्य स्थितः सन्गुरुणाऽनुज्ञातः सन्दारासीन्परिगृह्याऽऽश्रमी गृहस्थ इत्युच्यते । शक्तित इति । अग्नि ष्टोमादिसंस्कारान्संपायेति शेषः । स आश्रमी संन्यासविधये ब्राह्मीं पूर्वोक्तामिष्टं यजेस्कुर्यात् । तासां देवतानां प्रीतयेऽहोरात्रेण निर्वपेत् । अहोरात्रमुपाष्य ततो निर्वपेत् । इदं हि द्यहसाध्यं कर्म तत्र च जागरणादिकं कुर्यात् । संविभज्येति । सुतान्पुत्रानर्थैः संविभज्य विभक्तधनान्कृत्वा । ग्राम्यकामान्त्रीसङ्गादीन्विसृज्य । चरेत वनचर्येण । वनमार्गेणेति क्वचित्पाठः । वनचर्यया चरेत चरेद्विचरेत् । साग्निकश्चेवादश रात्रीः पयसा होमभक्षी वनेऽभिनिवर्त्य ततो ब्रह्मेष्टिं कृत्वा समारोग्य चरोदेति द्रष्टव्यम् । शुचौ पवित्रे देश तीर्थादौ परिभ्रमतीति परिभ्रमः संस्तस्मिन्काले वायुमात्राहारोऽम्बुमा. १ ग. 'भ्रमन् । वा। For Private And Personal

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663