Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 637
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । स्काषायवासाः कक्षोपस्थलोमानि वर्जयेदूलगोपायुर्विमुक्तमार्गो भवत्यनयैव चेत् । भिक्षाशनं दध्यात्पवित्रं धारयेज्जन्तुसंरक्षणार्थम् । तत्र श्लोकाः कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहम् । शीतोपघातिनी कन्या कौपीनाच्छादनं तथा ।। तदुक्तम्- "ज्ञानं दिव्यं यतो दद्यात्कुर्यात्पापक्षयं यतः । तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तत्त्ववेदिभिः" इति । तामुपेयाहीयाद्गृहीत्वा पालयेदिति भावः । दीक्षाधर्मानाह-काषायेति । कषायेण रक्तं काषायं वासो यस्य स तादृशः स्यात् । "काषायो रसभेदः स्यादङ्गरागे विलेपने । निर्यासे च कषायोऽपि सुरभी लोहितेऽन्यवत्" इति विश्वः। कक्षोपस्थलोमानि वर्जयेदिति । अन्यानि वापयेदित्यर्थात् । ऊर्ध्वगोपायुरिति। गोपायतीति गोपायुदण्डः स ऊर्ध्व ऊर्ध्वायो यस्य स तथा । अथ दण्डमादत्ते सखे मा गोपायेतीति शिष्टस्मरणात् । सखा मा गोपायेत्यारुणेयश्रुतेश्च । ऊर्ध्वको बाहुरिति पाठ जो बाहुः कर्तव्यो न मे कश्चित्प्रतिबन्धो न च मे कश्चिद्वेष्योऽस्तीति भावेन । तदेव फलाभिधानद्वारेण स्पष्टयति-विमुक्तमार्गो भवत्यनयैव चेदिति । अनयैव चेद्वृत्त्या तिष्ठति तर्हि विमुक्तोऽप्रतिबद्धो मार्गो यस्य तादृशो भवति कुत्रापि तस्य प्रतिबन्धो न भवतीत्यर्थः । अनिकेतश्चरेदिति पाठः । स्पष्टोऽर्थः। परिग्रहविशेषानाहभिक्षाशनं दध्यादिति । भिक्षाऽश्यते भुज्यतेऽनेनेति भिक्षाशनं भिक्षाभोजनपात्रं दध्याद्गृह्णीयात् । पवित्रं चामरादिपिच्छं दंशमशकादिनिवारणार्थ जलपवनार्थ वस्त्रखण्डं वा जलजन्तुवारणार्थम् । श्लोकोक्तानामुपलक्षणमेतत् । कुण्डिका भिक्षाटनपात्रम् । चमसः काष्ठमयः पात्रविशेषः । शिक्यं रज्जुमयमन्तरिक्षे भाण्डधारणार्थ यन्त्रम् । त्रिवि. ष्टपं त्रिविष्टब्धकमन्योन्याश्रयं काष्ठत्रयम् । अनामयं सज्ज न भग्नम् । उपानहमिति पाठ उपानही पादत्राणे । कौपीनाच्छादनमिति । कूपप्रवेशनमर्हति कौपीनं पुंलिङ्गं तद्धि गुह्यत्वात्प्रकाशयितुमयोग्यमिति कूपप्रवेशनमेवार्हति । स्त्रीयोनिर्वा कूपस्तस्मिन्हि बहवो मना न पुनरुन्मज्जन्ति तमर्हति कौपीनं 'शालीनकौपीने अधृष्टाकार्ययोः' इति १ क. घ. 'त्यनिकेतश्वरेत् । For Private And Personal

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663