Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 638
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतापवित्र स्नानशाटी चोचरासङ्गस्त्रिदण्डः। अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेथतिः ॥३॥ नदीपुलिनशायी स्यादेवागारेषु बाह्यतः । नात्यर्थे सुखदुःखाभ्यां शरीरमुपतापयेत् ॥ स्नानं दौनं तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् ।। भिक्षादि वैदलं पात्रं स्नानद्रव्यमवारितम् । एतां वृत्तिमुपासीना घातयन्तीन्द्रियाणि च ॥ विद्याया मनसि संयोगो मनसाकाशश्वाऽऽकाशाद्वायुर्वायोज्योतिज्योतिष आपोऽयः पृथिवी पृथिव्या इत्येषां भूतानां ब्रह्म प्रपद्यते । निपातनात्साधुः । तस्याऽऽच्छादनं वासःखण्डस्तञ्च दध्यात् । पवित्रं पूयतेऽनेन 'पुवः संज्ञायाम्'इतीत्रः । “पवित्रं वर्षण कुशे । पवित्रं ताम्र पयसार्मेध्ये चापि तदन्यवत्" इति विश्वः । इह तु जलपात्रं जलशांधनं वस्त्र वण्डं पिच्छं वा गृह्यो । स्नानशाटी षोडशहस्ताम् । उत्तरासङ्ग उत्तरीयम् । त्रिदण्डस्त्र यो दण्डा अस्मिन्समुदाये त्रिदण्डः ॥ ३ ॥ देवागारेषु बाह्यत इति । यदि बाह्य तो नदीपुलिनादन्यत्र वर्षव्याघ्रादिभयात्स्वप्या. तर्हि देवागारेषु न पुनर्जनकृतसत्ताके गृहादौ । देवागारेषु वाऽप्युतेति युक्तः पाठः। वाऽप्युत शायी स्यादित्यर्थः । देवागारेषु वा स्वदिति कठश्रुतिपाठात् । नात्यर्थमिति । सुखार्थ दुःखपरिहारार्थ च नान्यो यत्नः कर्तव्यो नापि बलाढुःखं जनयेत् । दानं तर्पणादि । ध्यानमिति पाठे ध्यानसाधनमाचमनीयादि । पूताभिर्वस्त्रखण्डैनं गलिताभिः । परान्निन्दकान् । भिक्षाद्याचरितं न निषिद्धं यतीनां तथा वैदलं पात्रं फलार्धखण्डादि तदप्यवारितम् । स्नानद्रव्यं गङ्गादि । य एतां वृत्तिं वर्तनमुगसीना एनस्या वृत्तेराश्रयणं कुर्वाणास्त इन्द्रियाणि चक्षुरादीनि घातयन्ति 'हिंमार्था वा चुरादयः' नन्ति जयन्तीत्यर्थः । यद्वैतां वृत्तिमाश्रित्येन्द्रियाणि जयेन्नेन्द्रियारामै व्यमित्यर्थः । कार्यकारणयोरैक्याब्रह्मणो जातं ब्रह्मैवेति जीवस्यापि ब्रह्मसंपत्तिरुपपद्यत इति दर्शयितुमाह-विद्याया इति । विद्यायाः स्वरूपज्ञानस्य मनोधिकरणः संबन्ध आध्यासिको मनसः सकाशादाकाशः संभूत इत्यादिर्योजना । छान्दसः संधिः । पृथिव्याः सकाशात् । इत्येवंप्रकाराणामेषां भूतानां शरीराणां संभव इति शेषः । तेन ज्ञानी ब्रह्म प्रपद्यते तद्भवतीत्यर्थः । अथवा विद्याया मनसि संयोगो ब्रह्मज्ञानस्योत्पत्तिस्तेन मनसि ज्ञानेन लीने तत्कार्य सर्व लीनं १ ख. 'टी तु उत्त' । २ ख. ग. दण्डकम् । अ। ३ ख. घ. ध्यानं । ४ ग. 'व्यमुदाहृत'। ५ स. घ. सीत घा। ग. 'सीत जितेन्द्रियो जयेत्सदा । वि। For Private And Personal

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663