Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 639
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । अजरममरमक्षरमव्ययं प्रपद्यते तदभ्यासेन प्राणापानी संयम्य तत्र श्लोकाः॥४॥ वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । संदश्य दशनैजिहां यवमात्रे विनिर्गताम् ॥ माषमात्र तथा दृष्टिं श्रोत्रे स्थाप्य तथा भुवि । श्रवणे नासिके न गन्धाय न स्वचं न स्पर्शयेत् ॥ अथ शैवं पदं यत्र तब्रह्म तत्परायणम् । सदभ्यासेन लभ्यते पूर्वजन्मार्चितात्मनः ॥ अथ तैः संभूतैर्वायुः संस्थाप्य हृदयं तपः । भवतीत्यर्थः । तत्स्वरूपमाह-अजरमिति । किं कृत्वा प्रपद्यते तस्य ब्रह्मणोऽभ्यासेन प्राणापानौ वायू संयम्य निरुध्येति पूर्वोक्तयोगानुसंधानं कृत्वाऽक्षरं प्रपद्यत इत्यन्वयः । अविलम्बेन सिद्धिदं प्रयोगविशेषमाह-श्लोका इति ॥ ४ ॥ वृषणापानयोरिति । अपानात्पायोरूवं वृषणयोरधश्च पाणी स्थापयित्वेत्यर्थः । संश्रयेत्प्राणायाममिति शेषः । पुनः किं कृत्वा दशनैर्दन्तैर्यवमात्रे विनिर्गती नाधिके बहिर्गतां निह्वां संदश्य संश्रयेत्प्राणायाममिति संबन्धः । तथा माषमात्रां संकुचितां दृष्टिं श्रोत्रे वृषणे स्थाप्य स्थापयित्वा । श्रु गतौ श्रुताविति शृणोतेर्गत्यर्थत्वाद्वीर्यश्रवणरूपगत्याधारत्वेन वृषणोऽपि श्रोत्रं भवति । तथा पर्यायेण ध्रुवि स्थाप्य तथा श्रवणे कर्णे स्थाप्य । तदुक्तममृतविन्दौ-"तिर्यगूर्ध्वमधोदृष्टिं विनाऽऽधार्य महामतिः” इति । श्रोत्रे धारणमधो भ्रबि धारणमूर्ध्व श्रवणे तिर्यगिति । तथा नासिके नासाग्रदृष्टिं स्थाप्य संश्रयेत् । नासाने दृष्टिं किं गन्धैकाग्रतया नेत्याह-न गन्धायेति । गन्धग्रहणमुपलक्षणं श्रवणे दृष्टिर्न शब्दं श्रोतुम् । एवमधोदृष्टावपि वृषणादौ स्थितायां कामोद्भवेन स्त्रीस्मरणात्तत्स्पर्श नायाभिलाषे प्राप्ते तं निषेधति । न त्वचं स्पर्शयेन्मनसा प्रयोजनेन । पुनर्नेति वचनमुक्तार्थदाक्य । नशब्द एवार्थे वाऽनेकार्थत्वान्निपातानाम् । नैव स्पर्शयेदित्यर्थः । तर्हि कुत्र मनः स्थाप्यमित्यत आह-अथेति । यत्र शैवं पदं शिवं ब्रह्म सदाशिवो या शिवस्तत्संबन्धि यत्र स्थले पदं व्यवसितं निश्चयस्तत्र मनः स्थापयेदिति शेषः । पदं व्यवसितत्राणस्थानलक्ष्माध्रिवस्तुष्वित्यमरः । यच्चैवं पदं तद्ब्रह्म तदेव परमयनम् । तत्कथं लभ्यत इत्यत आह-तदिति । अभ्यासेन योगस्य । कस्य । येन पूर्वजन्मनि स्वात्माऽर्चितः साधितः प्रसन्नीकृतः। तदुक्तम् - "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपयते” इति । अभ्यासे क्रियमाणे यद्भवति तदाह-अथेति । तैः संभूतैर्मिलितैः साधनैरासनायासादिभिर्हृदयं तपस्तप्तं हृदयं मनः संस्थाप्य स्थिरीकृत्य वायुः प्राणो देहा १ ख. "तां जि। ७४ For Private And Personal

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663