Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 643
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सर्वोपनिषत् । बभासते तदा विज्ञानमयः कोश इत्युच्यते । एतत्कोशचतुष्टयं स्वकारणाने वटकणिकायामिव गुप्तवटवृक्षो यदा वर्तते तदाऽऽनन्दमयकोश इत्युच्यते । सुखदुःखबुद्ध्याश्रयो देहान्तः कर्ता यदा तदेष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिःखबुद्धिः शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः । पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंधिोगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितत्वाज्जीव इत्युच्यते । मनआदिश्च प्राणादिश्च सत्त्वादिश्वेच्छादिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मी भूतात्मज्ञानादृते न विनश्यति । स्तान् । एतदिति । एतेन पूर्वोक्तकोशत्रयेण संयुक्तस्तद्गतः संकल्पादिगतो विशेषो ब्राह्मणत्वादिरविशेषो मनुष्यत्वादिसामान्यं तयोर्माता सविकल्पकहानादिमान् । एत. कोशचतुष्टयं पूर्वोक्तं वकारणाज्ञाने स्वस्य कारणीभूतं यदज्ञानं ब्रह्म तत्र वर्तते । तत्र दृष्टान्तो वटवीने यथा वटो वर्तते तद्वत्स च निर्विषये जाग्रति मनसि सुषुप्ते च भवति । कर्तलक्षणमाह-सुखति । सुखं भवतु दुःखं मे मा भूदिति प्रवृत्तः सुखदुःखयोरनुभविता देहान्तः स्थूलसूक्ष्मदेहोपाधिः कर्तेत्यर्थः । यदा तदेति पूर्वेण संबध्यते । यदा देहोपाधिस्तदा कर्तेत्यर्थः । सुखदुःखबुद्ध्योर्लक्षणे लक्षणाङ्गतयाऽऽह-इष्टेति । इष्टानिष्टविषयानाह-शब्देति । अनुकूलवेद्याः सुखहेतवः प्रतिकूलवेद्या दुःखहेतवः । सुखदुःखहेतू दर्शयञ्जीवलक्षणमाह-पुण्यति । पुण्यपापानुसारित्वं ज्ञानसंस्कारयोरप्युपलक्ष. णम् “तमेतं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च महती" इति श्रुतेः । प्राप्तस्य शरीरस्य यः संबन्धस्तस्य वियोगमिव कुर्वाणोऽप्राप्तशरीरस्य संयोगमिव । इवशब्दो वस्तुतोऽसङ्गत्वात् । उपहितत्वान्नानाशरीरोपाधिमत्त्वाज्नीव इत्युच्यते । प्राप्तशरीरसंधिोगमिति पाठे प्राप्तः शरीरयोः संधिर्येन सः । एकशरीरत्यागेनापरशरीरग्रहणं संधिः । योगमित्यस्यैव व्याख्यानमप्राप्तशरीरसंयोगमिति । क्षेत्रज्ञं लक्षयितुं लिङ्गं लिल. क्षयिषुः पञ्चवर्गानाह-मनआदिश्चेति । मनो बुद्धिश्चित्तमहंकारश्च । प्राणादिपञ्च वायवः । सत्त्वादिस्त्रयो गुणाः । इच्छादिः कामः संकल्पो विचिकित्सा श्रद्धोऽश्रद्धा धृतिरधृतिहीीींश्च । पुण्यादिः पुण्यपापज्ञानसंस्काराः । पञ्चैते वर्गाः । इतिर्वाक्यसमाप्तौ । लिङ्गस्य मनआदिसंघितामाह-एतेषामिति । धर्मी संघी भूतात्मज्ञानाद्भूतः सिद्धो य आत्मा तस्य ज्ञानं विना न नश्यत्यात्मज्ञानेन च नश्यति भिद्यते हृदय १ ङ. 'मयको । २ क. इ. मयः को। ३ ग. ङ. “हान्तर्वती यदा तदा कर्तेत्युच्यते । इष्ट' । ४ क. पुण्यापुण्यक । ५ च. "दा धृ। For Private And Personal

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663