Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 593
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३९ श्रीरामोत्तरतापनीयोपनिषत् । द्वितीयः पादः। यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वमं पश्यति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः साकारपक्षे शत्रुघ्नस्तैजसः प्रद्युम्नांशत्वेन जगद्वीनत्वात् । द्वितीयः पादः पद्यतेऽनेनेति न्युत्पत्त्या । साकारपक्षे लक्ष्मणापेक्षया द्वितीयः शत्रुघ्नो रामप्राप्तिहेतुत्वात्पादः । तृतीयं पादं व्याचष्टे-योति । त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां समत्वादस्य तुरीयात्पूर्व निरूपणम् । न कंचन काममिति जागरव्यावृत्तिर्न कंचन स्वप्नं पश्यतीति स्वप्नस्य । नन्वेकेनैवोभयव्यवच्छेदसिद्धौ द्वितीयमनर्थकमिति चेदेवं तर्हि विशेषणयोर्विकल्पेन व्यवच्छेदकत्वान्नाऽऽनर्थक्यम् । कामसंस्पर्शविरहित्वमन्यथाग्रहणशून्यत्वं च तयोरर्थः । सुषुप्तस्थान इति । सुषुप्तं स्थानद्वयविशेषरहितं स्थानं भूमिरस्य स तथा । एकीभूत ऐक्यमापन्नः कार्यलये कारणेनाव्यक्तेनाभेदमापन्नो शतमोग्रस्तमिवाहस्तेनैकीभूत इव भवति । प्रज्ञानघनः प्रज्ञानानि स्वप्नजाग्रन्मनःस्पन्दनानि घनीभूतानीवास्य स प्रज्ञानघनः । एवशब्दाजात्यन्तरनिषेधः । आनन्दमय आनन्दप्रचुरो नाऽऽनन्दविकारः कूटस्थत्वार्तिकंतु स्वरूपसुखाभिव्यक्तिप्रतिबन्धकदुःखाभावादानन्दप्रचुरः । मयटः स्वरूपार्थत्वादानन्दत्वमेव किं न स्यादिति चेन्न । न हि सुषुप्ते निरुपाधिकानन्दत्वं प्राज्ञस्याभ्युपगन्तुं शक्यम् । तस्य कारणोपहितत्वादन्यथा मुक्तत्वात्पुनरुत्थानायोगात्तस्मादानन्दप्राचुर्यमेवास्य स्वीकर्तुं युक्तमत आनन्दभुक्सौषुप्तपुरुषस्य तस्यामवस्थायां स्वरूपभूतानतिशयानन्दाभिव्यक्तिरस्ति 'एषोऽस्य परमानन्दः' इति श्रुतेः । चेतोमुखः स्वप्नो जागरितं चेति प्रतिबोधशब्दितं चेतस्तत्प्रति द्वारीभूतत्वात् । न हि स्वप्नस्य जागरितस्य वा सुषुप्तं द्वारमन्तरेण संभवोऽस्ति तयोस्तत्कार्यत्वात् । नन्वेवं चेतोमुखमिति स्यात् । एवं तर्हि बोधलक्षणं चेतो मुखं द्वारमस्य स्वप्नाद्यागमनं प्रतीति चेतो. मुखः । प्राज्ञस्य सुषुप्ताभिमानिनः स्वप्नं जागरितं वा प्रति यदागमनं तत्प्रति चैतन्य,मेव द्वारं न हि तद्व्यतिरेकेण काऽपि चेष्टा सिध्यतीत्यर्थः । प्राज्ञः प्रजानातीति प्रज्ञः प्रज्ञ एव प्राज्ञः । कालिकवस्तुज्ञातृत्वमस्यैव । ननु सुषुप्ते समस्तविशेषविज्ञानोपरमास्कुतो ज्ञातृत्वमिति चेन्न । सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते । यथा मथुरायां पूर्वमुषितोऽपि माथुरः । तर्हि प्राज्ञशब्दस्य मुख्यार्थत्वं न सिध्यतीति चेत्तर्हि प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञः । इतरयोविशिष्टमपि विज्ञानमस्ति सोऽयं तृतीयः पादस्तुरीयप्रतिपत्तिहेतुत्वात्पादः । प्रज्ञात्मकस्तु भरत इत्युग्वचनाद्भरतपक्षे योज्यते । मुप्तो जितेन्द्रियः । न कंचन कामं कामयते पित्रा दत्तस्यापि राज्यस्य परित्यागात् । न कंचन स्वप्नं पश्यति कार्येषु जागरूकत्वात् । तत्सुषुप्तं तस्य स्थितप्रज्ञत्वम् । सुषुतस्थाने नन्दिग्रामे गुहाशय एकी भूतो भक्त्या रामेणैक्यमापनो मातृपक्षत्यागाद्वा । For Private And Personal

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663