Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 594
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५४० नारायणविरचितदीपिकासमेता-- प्रज्ञानघन एवाऽऽनन्दमयो धानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां नान्तःप्रज्ञं न बहिष्पमं नोभयतःप्रज्ञ न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनम प्रज्ञानधन एव महाप्रज्ञः । आनन्दमयो हर्षशोकाद्यनाकुलत्वादत एवाऽऽनन्दभुगनिरुद्धत्वात् । चेतोमुखः कर्तव्यपरिपाकदर्शी । प्राज्ञः कुशाग्रबुद्धिः । तृतीयः सुमित्रासतद्वयापेक्षया । पादो रामस्यान्तरङ्गः प्रापकः । प्राज्ञस्याऽऽधिदैविकेनान्तर्यामिणाऽभेदं गृहीत्वा विशेषणान्तरमाह-एष सर्वेश्वर इति । उपाध्यप्राधान्यमवधूय स्वरूपावस्थश्चैतन्यप्रधानः सर्वेश्वरः । अन्यथा स्वातत्र्यानुपपत्तेः । साकारपक्षे भरतः सर्वेश्वरः पितृभ्रातृभ्यां देशाधिपत्येऽधिकृतत्वात् । एष सर्वज्ञोऽन्ये कतिपयज्ञाः । भरतः सर्वशास्त्रतत्त्वज्ञः । एषोऽन्तर्यामी । एष एवान्तरनुप्रविश्य सर्वेषां भूतानां नियन्ता । भरतः पुरीमनुप्रविश्य लोकानां नियन्तेतरयोर्वनवासित्वात् । एष योनिः सर्वस्य सर्वजगत्कारणं कारणत्वे प्रकृतविशेषणत्रयमेव हेतुः । भरतः सर्वस्य धर्मादेर्योनिर्धर्माधिकारित्वादर्थशास्त्रोक्तसर्वराजकार्यसंपादकत्वाच्च । प्रभवाप्ययौ हि भूतानामेष इत्यनुषङ्गः । निमित्तकारणत्वेऽप्युक्तानि विशेषणानि निर्वहन्तीत्याशङ्कय प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति न्यायानिमित्तोपादानयोर्न जगति भिन्नत्वमित्येवं नियमतः प्रभवाप्ययावित्युक्तम् । प्रभवत्यस्मादिति प्रभवः 'ऋदोरप्' । अप्येत्यस्मिन्नित्यप्ययः ‘एरच' न त्वेतौ भूतानामेकत्रोपादानादृते संभाविताविति भावः । भरतोऽपि भूतानां सिद्धानां कार्याणां घटको विघटकश्च भवति श्रीरामसाम्राज्यसेनाधिपत्याङ्गीकारात् । एतदन्तो ग्रन्थः प्राज्ञपरः । एषपदोपादानात्तदनुवृत्तेश्च । एवं पादत्रये व्याख्याते व्याख्येयत्वेन क्रमवशा प्राप्तं चतुर्थ पादं व्याख्यातुमुत्तरग्रन्थप्रवृत्तिर्नान्तःप्रज्ञमित्यादि । ननु पादत्रयवद्विधिमुखेनैव चतुर्थपादो व्याख्यायतां किमिति निषेधमुखेन व्याख्यायते । उच्यते । सर्वाणि यानि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि तैः शन्यत्वात्तुरीयस्य वाच्यत्वायोगानिषेधद्वारेणैव तन्निर्देशः संभवतीति । यदि चतुर्थं न विधिमुखेन निर्देष्टुं शक्यं तर्हि शन्यमेव तदापयेत तन्निषेधेनैव निर्दिश्यमानत्वात्तथाविधं च नास्त्यर्थवदिति चेन्न । न तुरीयस्य शन्यत्वमनुमातुं युक्तं विमतं सदधिष्ठानं कल्पितत्वात्तथाविधरजतादिवदिल्यनुमानात्तुरीयस्य सत्त्वसिद्धर्मिथ्याकल्पितस्य निनिमित्तत्वानुपपत्तेः । नहि रजतसर्पस्थाणु. पुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूपरादिव्यतिरेकेणावस्तुत्वास्पदाः शक्याः कल्पयितुं रजतादीनां सदनुविद्धबुद्धिबोध्यत्वादवस्तुत्वास्पदत्वायोगात्तद्वदेव प्राणादिवि. कल्पानामपि नावस्त्वास्पदत्वं, सिध्यतीति न तुरीयस्यावस्तुत्वम् । नान्तःप्रज्ञामिति तैनसनिषेधः । न बहिष्प्रज्ञमिति विश्वनिषेधः । नोभयतःप्रज्ञमिति युगपत्सर्वविषयप्रज्ञा. तृत्वनिषेधः । नाप्रज्ञमित्यचैतन्यनिषेधः । न प्रज्ञानघनमिति सुषुप्तावस्थानिषेधः सुषु. For Private And Personal

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663