________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४०
नारायणविरचितदीपिकासमेता-- प्रज्ञानघन एवाऽऽनन्दमयो धानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां नान्तःप्रज्ञं न बहिष्पमं नोभयतःप्रज्ञ न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनम
प्रज्ञानधन एव महाप्रज्ञः । आनन्दमयो हर्षशोकाद्यनाकुलत्वादत एवाऽऽनन्दभुगनिरुद्धत्वात् । चेतोमुखः कर्तव्यपरिपाकदर्शी । प्राज्ञः कुशाग्रबुद्धिः । तृतीयः सुमित्रासतद्वयापेक्षया । पादो रामस्यान्तरङ्गः प्रापकः । प्राज्ञस्याऽऽधिदैविकेनान्तर्यामिणाऽभेदं गृहीत्वा विशेषणान्तरमाह-एष सर्वेश्वर इति । उपाध्यप्राधान्यमवधूय स्वरूपावस्थश्चैतन्यप्रधानः सर्वेश्वरः । अन्यथा स्वातत्र्यानुपपत्तेः । साकारपक्षे भरतः सर्वेश्वरः पितृभ्रातृभ्यां देशाधिपत्येऽधिकृतत्वात् । एष सर्वज्ञोऽन्ये कतिपयज्ञाः । भरतः सर्वशास्त्रतत्त्वज्ञः । एषोऽन्तर्यामी । एष एवान्तरनुप्रविश्य सर्वेषां भूतानां नियन्ता । भरतः पुरीमनुप्रविश्य लोकानां नियन्तेतरयोर्वनवासित्वात् । एष योनिः सर्वस्य सर्वजगत्कारणं कारणत्वे प्रकृतविशेषणत्रयमेव हेतुः । भरतः सर्वस्य धर्मादेर्योनिर्धर्माधिकारित्वादर्थशास्त्रोक्तसर्वराजकार्यसंपादकत्वाच्च । प्रभवाप्ययौ हि भूतानामेष इत्यनुषङ्गः । निमित्तकारणत्वेऽप्युक्तानि विशेषणानि निर्वहन्तीत्याशङ्कय प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति न्यायानिमित्तोपादानयोर्न जगति भिन्नत्वमित्येवं नियमतः प्रभवाप्ययावित्युक्तम् । प्रभवत्यस्मादिति प्रभवः 'ऋदोरप्' । अप्येत्यस्मिन्नित्यप्ययः ‘एरच' न त्वेतौ भूतानामेकत्रोपादानादृते संभाविताविति भावः । भरतोऽपि भूतानां सिद्धानां कार्याणां घटको विघटकश्च भवति श्रीरामसाम्राज्यसेनाधिपत्याङ्गीकारात् । एतदन्तो ग्रन्थः प्राज्ञपरः । एषपदोपादानात्तदनुवृत्तेश्च । एवं पादत्रये व्याख्याते व्याख्येयत्वेन क्रमवशा
प्राप्तं चतुर्थ पादं व्याख्यातुमुत्तरग्रन्थप्रवृत्तिर्नान्तःप्रज्ञमित्यादि । ननु पादत्रयवद्विधिमुखेनैव चतुर्थपादो व्याख्यायतां किमिति निषेधमुखेन व्याख्यायते । उच्यते । सर्वाणि यानि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि तैः शन्यत्वात्तुरीयस्य वाच्यत्वायोगानिषेधद्वारेणैव तन्निर्देशः संभवतीति । यदि चतुर्थं न विधिमुखेन निर्देष्टुं शक्यं तर्हि शन्यमेव तदापयेत तन्निषेधेनैव निर्दिश्यमानत्वात्तथाविधं च नास्त्यर्थवदिति चेन्न । न तुरीयस्य शन्यत्वमनुमातुं युक्तं विमतं सदधिष्ठानं कल्पितत्वात्तथाविधरजतादिवदिल्यनुमानात्तुरीयस्य सत्त्वसिद्धर्मिथ्याकल्पितस्य निनिमित्तत्वानुपपत्तेः । नहि रजतसर्पस्थाणु. पुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूपरादिव्यतिरेकेणावस्तुत्वास्पदाः शक्याः कल्पयितुं रजतादीनां सदनुविद्धबुद्धिबोध्यत्वादवस्तुत्वास्पदत्वायोगात्तद्वदेव प्राणादिवि. कल्पानामपि नावस्त्वास्पदत्वं, सिध्यतीति न तुरीयस्यावस्तुत्वम् । नान्तःप्रज्ञामिति तैनसनिषेधः । न बहिष्प्रज्ञमिति विश्वनिषेधः । नोभयतःप्रज्ञमिति युगपत्सर्वविषयप्रज्ञा. तृत्वनिषेधः । नाप्रज्ञमित्यचैतन्यनिषेधः । न प्रज्ञानघनमिति सुषुप्तावस्थानिषेधः सुषु.
For Private And Personal