________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५३९
श्रीरामोत्तरतापनीयोपनिषत् । द्वितीयः पादः। यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वमं पश्यति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः
साकारपक्षे शत्रुघ्नस्तैजसः प्रद्युम्नांशत्वेन जगद्वीनत्वात् । द्वितीयः पादः पद्यतेऽनेनेति न्युत्पत्त्या । साकारपक्षे लक्ष्मणापेक्षया द्वितीयः शत्रुघ्नो रामप्राप्तिहेतुत्वात्पादः । तृतीयं पादं व्याचष्टे-योति । त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां समत्वादस्य तुरीयात्पूर्व निरूपणम् । न कंचन काममिति जागरव्यावृत्तिर्न कंचन स्वप्नं पश्यतीति स्वप्नस्य । नन्वेकेनैवोभयव्यवच्छेदसिद्धौ द्वितीयमनर्थकमिति चेदेवं तर्हि विशेषणयोर्विकल्पेन व्यवच्छेदकत्वान्नाऽऽनर्थक्यम् । कामसंस्पर्शविरहित्वमन्यथाग्रहणशून्यत्वं च तयोरर्थः । सुषुप्तस्थान इति । सुषुप्तं स्थानद्वयविशेषरहितं स्थानं भूमिरस्य स तथा । एकीभूत ऐक्यमापन्नः कार्यलये कारणेनाव्यक्तेनाभेदमापन्नो शतमोग्रस्तमिवाहस्तेनैकीभूत इव भवति । प्रज्ञानघनः प्रज्ञानानि स्वप्नजाग्रन्मनःस्पन्दनानि घनीभूतानीवास्य स प्रज्ञानघनः । एवशब्दाजात्यन्तरनिषेधः । आनन्दमय आनन्दप्रचुरो नाऽऽनन्दविकारः कूटस्थत्वार्तिकंतु स्वरूपसुखाभिव्यक्तिप्रतिबन्धकदुःखाभावादानन्दप्रचुरः । मयटः स्वरूपार्थत्वादानन्दत्वमेव किं न स्यादिति चेन्न । न हि सुषुप्ते निरुपाधिकानन्दत्वं प्राज्ञस्याभ्युपगन्तुं शक्यम् । तस्य कारणोपहितत्वादन्यथा मुक्तत्वात्पुनरुत्थानायोगात्तस्मादानन्दप्राचुर्यमेवास्य स्वीकर्तुं युक्तमत आनन्दभुक्सौषुप्तपुरुषस्य तस्यामवस्थायां स्वरूपभूतानतिशयानन्दाभिव्यक्तिरस्ति 'एषोऽस्य परमानन्दः' इति श्रुतेः । चेतोमुखः स्वप्नो जागरितं चेति प्रतिबोधशब्दितं चेतस्तत्प्रति द्वारीभूतत्वात् । न हि स्वप्नस्य जागरितस्य वा सुषुप्तं द्वारमन्तरेण संभवोऽस्ति तयोस्तत्कार्यत्वात् । नन्वेवं चेतोमुखमिति स्यात् । एवं तर्हि बोधलक्षणं चेतो मुखं द्वारमस्य स्वप्नाद्यागमनं प्रतीति चेतो. मुखः । प्राज्ञस्य सुषुप्ताभिमानिनः स्वप्नं जागरितं वा प्रति यदागमनं तत्प्रति चैतन्य,मेव द्वारं न हि तद्व्यतिरेकेण काऽपि चेष्टा सिध्यतीत्यर्थः । प्राज्ञः प्रजानातीति प्रज्ञः प्रज्ञ एव प्राज्ञः । कालिकवस्तुज्ञातृत्वमस्यैव । ननु सुषुप्ते समस्तविशेषविज्ञानोपरमास्कुतो ज्ञातृत्वमिति चेन्न । सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते । यथा मथुरायां पूर्वमुषितोऽपि माथुरः । तर्हि प्राज्ञशब्दस्य मुख्यार्थत्वं न सिध्यतीति चेत्तर्हि प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञः । इतरयोविशिष्टमपि विज्ञानमस्ति सोऽयं तृतीयः पादस्तुरीयप्रतिपत्तिहेतुत्वात्पादः । प्रज्ञात्मकस्तु भरत इत्युग्वचनाद्भरतपक्षे योज्यते । मुप्तो जितेन्द्रियः । न कंचन कामं कामयते पित्रा दत्तस्यापि राज्यस्य परित्यागात् । न कंचन स्वप्नं पश्यति कार्येषु जागरूकत्वात् । तत्सुषुप्तं तस्य स्थितप्रज्ञत्वम् । सुषुतस्थाने नन्दिग्रामे गुहाशय एकी भूतो भक्त्या रामेणैक्यमापनो मातृपक्षत्यागाद्वा ।
For Private And Personal