________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५३८
नारायणविरचितदीपिकासमेतास्थूलभुग्वैश्वानरः प्रथमः पादः । स्वमस्थानोऽन्त:मज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो
स्थूलभुक् । इन्द्रियादिद्वारा स्थूलान्विषयान्भुङ्क्ते । विषयाणां स्थूलत्वं दिगादिदेवतानुगृहीतैः श्रोत्रादिभिर्गृह्यमाणत्वात् । साकारे स्थूलभुमहाभोक्ता । विश्वो विश्वाकारेण स्थितो विराड्देहाभिमानी। नरः पुरुषः । साकारे सर्वाश्रयत्वाद्विश्वः । प्रथमः पादः । एतत्पूर्वकत्वादुत्तरपादाधिगमस्य प्राथम्यमस्य । साकारपक्षे रामप्राप्तौ लक्ष्मणभजनस्य प्रथमोपायत्वाल्लक्ष्मणः प्रथमः पादः। नन्वयमात्मा ब्रह्मेति प्रत्यगात्मनोऽत्र चतुष्पात्त्वे प्रकृते कथं लक्ष्मणादिमन्त्रादिभिः सप्ताङ्गता कथं चद्व्यादित्यादिभिः पृथिव्यन्तैराधिदैविकैः सप्ताङ्गता। उच्यते । उपास्योपासकयोरध्यात्माधिदैवतयोश्चाभेदस्य विवक्षितत्वात्तद्यथोक्तविशेषणयोगः संभवति । पादानामपि परस्परैक्यस्य विवक्षितत्वात्प्रथमपादादौ तुरीयपादादिधर्मयोगः । द्वितीयं पादमाह-स्वमस्थान इति । स्वप्नः स्थानं ममाभिन्नविषयभूतमस्य स तथा । स्वप्नजागरयोः को भेदः । उच्यते । जाग्रत्प्रज्ञाऽनेकसाधना बहिर्विषया प्रातिभासिकी मनःस्पन्दमात्रा सती यथाभूतं संस्कारं मनायाधत्ते स जागरः । तन्मनस्तथासंस्कृतं चित्रित इव पटो बाह्यसाधनानपेक्षमविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते स स्वप्नः “ अस्य लोकस्य सर्वावतो मात्रामपादाय स्वपिति" इति श्रुतेः । स्वप्नरूपेण परिणतं मनः साक्षिणो विषयो भवति । तथा च घटादिवद्विषयत्वान्मनसो नाऽऽत्मग्राहकत्वशङ्का । अन्तःप्रज्ञ इति । ननु विश्वस्य बाह्येन्द्रियजन्यप्रज्ञायास्तैजसस्य मनोजन्यप्रज्ञायाश्चान्तस्थत्वाविशेषादन्तःप्रज्ञत्वं विशेषणमव्यावर्तकमिति चेदुपपादितं तावद्विश्वस्य बहिष्प्रज्ञत्वं तैजसस्त्वन्तःप्रज्ञो विज्ञायते बाह्यानीन्द्रियाण्यपेक्ष्य मनसोऽन्तःस्थत्वात्तत्परिणामत्वाच्च स्वप्नप्रज्ञायास्तद्वानन्तःप्रज्ञो युज्यते । किंच मनःस्वभावरूपा या जागरितवासना तद्रूपा स्वप्नप्रज्ञेति युक्तं तैजसस्यान्तःप्रज्ञत्वम् । साकारे शत्रुघ्नः कुमारपदव्यास्थितः प्रद्युम्नः कामितया सुखे सुष्वाप मन्त्रिपदमवलम्बमानोऽन्तःप्रज्ञश्च । सप्ताङ्गत्वमेकोनविंशतिमुखत्वं च पूर्ववत् । प्रविविक्तभुगिति । सूक्ष्मभुक् । ननु विश्वतैजसयोरविशिष्टं प्रविविक्तभुक्त्वं प्रज्ञाया भोज्यत्वस्य तुल्यत्वात् । मैवम् । तस्याभोज्यत्वाविशेषेऽपि तस्यामवान्तरभेदात्सविषयत्वाद्विश्वभोज्या प्रज्ञा स्थूला लक्ष्यते । तैजसे तु प्रज्ञा विषयसंस्पर्शशून्या वासनामात्ररूपेति विविक्तो भोगः। साकारपक्षे मिष्टान्नभोजी शत्रुघ्नः प्रद्युम्नांशतया कामित्वात्कुमारत्वाच्च तैजसस्तेजोमयः । ननु स्वप्नाभिमानिनस्तेजोविकारत्वाभावात्कुतस्तैजसत्वम् । उच्यते । स्थूलो विषयो यस्यां वासनामय्यां प्रज्ञायां ज्ञायते तस्यां विषयसंस्पर्शमन्तरेण प्रकाशमात्रतया स्थितायामाश्रयत्वेन भवतीति स्वप्नद्रष्टा तैजसो विवक्षितः । तेजःशब्देन यथोक्तवासनामय्याः प्रज्ञाया विवक्षितत्वात् ।
For Private And Personal