________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५३७
श्रीरामोत्तरतापनीयोपनिषत् । सप्ताङ्ग एकोनविंशतिमुखः
हाह्यस्य विषयस्य काल्पनिकत्वादतस्तद्विषयत्वं प्रातिभासिकमवधेयम् । साकारपक्षे सर्वदेशवृत्तान्तसावधानः । सप्ताङ्गः सप्तशीर्षण्यः पञ्चेन्द्रियाणि बुद्धिमनसी वाऽङ्गान्यस्य । अथवा मूर्धा चक्षुः प्राणः संदेहो बस्तिः पादावस्य च सप्ताङ्गानि 'तस्य मूर्धेव सुतेजाः' इत्यादिच्छान्दोग्यश्रुतेः । साकारपक्षे लक्ष्मणः शत्रुघ्नः सप्ताङ्गानि प्रत्युपायाः खमन्त्राक्षररूपाण्यस्य स तथा । यद्वा-"लोकाधिनाथं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये" ॥ इतिश्लोकोक्तान्यनूद्यानि सप्त नामान्यङ्गानि साधनानि यस्य लक्ष्मणस्य सः । एकोनविंशतिमुख एकोनविंशतिर्मुखानि याज्ञवल्क्योक्तानि
"इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाऽहंकार एव च ॥ प्रयत्न आकृतिवर्णः खरद्वेषौ भावाभावी ।
तस्येदमात्मजं सर्वमनादेरादिमिच्छतः” इति ॥ . मुखानि प्रवृत्तिद्वाराणि । यद्वा प्राणेन्द्रियान्तःकरणानि मुखान्यस्य । साकारपक्षे नु “शिरो मे राघवः पातु" इत्यारभ्य "पादौ विभीषणश्रीदः" इत्यन्तानि शिरोभालदृक्श्रुतिघाणमुखजिह्वाकण्ठस्कन्धभुज करहृदयमध्यनाभिकटिसक्थिनानुजवापादरक्षाप्र. तिपादकान्येकोनविंशतिवाक्यानि मुखे यस्य सः । रामरक्षापठनपर इत्यर्थः ।
"श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम" ॥ इतिश्लोकोक्तान्येकोनविंशतिनामानि मुखे यस्य स लक्ष्मण एकोनविंशतिमुखः । यद्वा-"रामं लक्ष्मणपूर्वजं रघुवरं सीतापति सुन्दरं
काकुत्स्थं करुणाकरं गुणनिधि सत्यप्रियं धार्मिकम् । राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्ति
वन्दे लोकाधिनाथं रघुकुलतिलकं राघवं रावणारिम्" ॥ इतिश्लोकोक्तानि पदानि श्रीरामस्तुतिपराणि मुखे यस्य लक्ष्मणस्येति नित्यं श्रीरामस्तुतिपर इत्यर्थः । यद्वा-"पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्व चार्थशास्त्रकम् । साहित्यं च" इत्येता एकोनविंशतिर्विद्या मुखे यस्येति व्याख्येयम् ।
For Private And Personal