SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीरामोत्तरतापनीयोपनिषत् ।। दृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपचोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः तस्य बीजभावाविवेकरूपत्वात् । विशेषविज्ञानानां सर्वेषां घनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना संभवति । निषेधशास्त्रालोचनया निर्विशेषत्वं तुरीयस्योक्तं तत एव ज्ञानेन्द्रियाविषयत्वाददृष्टम् । दृष्टस्यैवार्थक्रियादर्शनाददृष्टत्वादकि. यारहितत्वमित्याह-अव्यवहार्यमिति । अग्राह्यं कर्मेन्द्रियाथैरिति नादृष्टमित्यनेन पौनरुक्त्यम्-अलक्षणमिति । ननु सत्यं ज्ञानमनन्तमित्यादिलक्षणोपलम्भादयुक्तमेतत् । एवं तर्हि लक्ष्यतेऽनेनेति लक्षणं लिङ्गं तद्रहितमलक्षणम् । ननु को ह्येवान्यात्कः प्राण्यादित्यादिलिङ्गोपन्यासविरुद्धमेतत् । एवं तर्हि लिङ्गमनुमापको हेतुस्तद्रहितमनुमानाविषय औपनिषदत्वात् । प्रत्यक्षानुमानाविषयत्वादचिन्त्यं मनसोऽविषयः। आ एवाव्य. पदेश्यं शब्दैः। शब्दप्रवृत्तेर्मनःप्रवृत्तिपूर्वकत्वात् । तर्हि यथोक्तं वस्तु नास्त्येव प्रमाणाभावादित्याशङ्कयाऽऽह-एकात्मप्रत्ययसारमिति । जाग्रदादिस्थानेष्वेकोऽयमात्मेत्यव्यभिचारी यः प्रत्ययस्तेनानुसरणीयमनुगतप्रत्ययगम्यम् । एवमन्तःप्रज्ञत्वादिस्थानिधर्मनिषेधः कृतः । प्रपञ्चोपशममिति जाग्रदादिस्थानिधर्मनिषेध उच्यतेऽत एव न पौनरुक्त्यम् । शिवं परिशुद्धं परमानन्दरूपमिति यावत् । अद्वैतं भेदविकल्परहितम् । चतुर्थ संख्यावि. शेषविषयत्वाभावेऽपि प्रतीयमानपदत्रयरूपवैलक्षण्यात्तुरीयं मन्यन्ते वेदविदः । तस्योक्तलक्षणत्वेऽपि नः किमायातमित्याशङ्कयाऽऽह-स आत्मेति । आत्मनि यथोक्तविशेषणानि न प्रतिभान्तीत्याशङ्कयाऽऽह--स विज्ञेय इति । प्रतीयमानभूसर्पभूछिद्रदण्डादिव्यतिरिक्ता यथा रज्जस्तथा तत्त्वमसीत्यादिवाक्यार्थ आत्माऽदृष्टो द्रष्टा नहि द्रष्टुर्दृष्टेविपरिलोपो विद्यत इत्यादिश्रुतिभिरुक्तः स विज्ञेय इत्यर्थः । आत्मन्यव्यवहार्ये कुतो विज्ञेयत्वमिति चेद्भूतपूर्वगत्या पूर्वमविद्यावस्थायां या ज्ञेयत्वाख्या तया व्यपदेशो ज्ञाते तु द्वैताभावो ज्ञानेन द्वैतकारणस्याज्ञानस्यापनीतत्वात् । साकारपक्षे तु तीर्थयात्रात आगतो रामोऽन्तनिष्ठो यदाऽभूत्तद्दशा वर्ण्यते । नान्तःप्रज्ञमित्यादिषनिषेधैस्तस्य शान्तावस्थोक्ता । अदृष्टमित्यादिषडविशेषणैर्दान्तावस्थोक्ता । एकात्मप्रत्ययसारमित्युपरतता । प्रपञ्चोपशममित्यादिविशेषणत्रयेण निष्पन्नदशा । चतुर्थ लक्ष्मणाद्यपेक्षया । स आत्मा बन्धुः सर्वेषां स विज्ञेयः सर्वप्रदत्वात् । इयं रामस्य दशा राजानं पितरं प्रति भृत्यैरुक्ता । तथाहि"भृत्या ऊचुः-रामो राजीवपत्राक्षो यतः प्रभृति चाऽऽगतः । ___स व्यग्रस्तीर्थयात्रायास्ततः प्रभृति दुर्भनाः” इत्यादिना ॥ १ कश्यम' । २ ज. वि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy