________________
Shri Mahavir Jain Aradhana Kendra
५४२
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेता -
सदोज्ज्वलोsविद्यातत्कार्यहीनः स्वात्मबन्धेहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्योऽहमित्यों तत्सद्यत्परं ब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहम तद्रामैचन्द्रः परं ज्योतिः सोऽहमोमित्यात्मानमादाय मनसा ब्रह्मणैकी कुर्यात् ।
सदोज्ज्वलः । विश्वादयस्तु तमसा पिहितत्वात्कदाचित्सत्त्वपरिणामे सत्युज्ज्वला न सदा । सदोज्ज्वलत्वे हेतुरविद्येति निरुपाधित्वात्स्वरूपेण भास्वरो निरभ्र इव सूर्यः । रामः कुहकर हितत्वात्सदा यशसा भाखरः स आत्मा न वैशेषिकेश्वर इव तटस्थोऽत एव स्वज्ञानाइन्धहरः " भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे " इति मन्त्रवर्णात् । राम आत्मतुल्यो दयालुतया कारागृहादिमोचकः । पुरुषत्वेन कदाचिज्जाड्यसंभवमाशङ्कयाऽऽह— सर्वदा द्वैतरहित इति । राम एकमनाः । स्वरूपलक्षणमाह - आनन्दस्वरूप इति । तर्हि कुतो द्वैतभानमत आह- सर्वाधिष्ठान इति । सर्वमविद्या तत्कार्यं च । सर्वाधिष्ठानत्वे प्रमाणं सन्मात्रः । सर्वसत्प्रत्यये सदालम्बनतैव हेतुः । राम आनन्दप्रचुरः सर्वलोकाश्रयः सच्चरित्रश्च । अविद्यातत्कार्यहीनः सर्वाधिष्ठानश्चेति विरुद्धमित्याशङ्कयाssह - निरस्ताविद्यातमोमोह इति । अविद्यैव तमस्तत्कृतो मोहो मिथ्याज्ञानं स यतो नितरामस्तो दूरापास्त इत्यर्थः । वास्तवोऽविद्याद्यभाव आरोपितं सर्वाधिष्ठानत्वमिति न विरोध इति भावः । अहमेवेति संभाव्य इति । ईहतुरीयोऽहमे -- वेति चिन्तनीयः । यथा तद्ब्रह्माहमेवेति तद्वत् । ब्रह्मण आत्मनैक्यमुक्त्वाऽऽत्मनो ब्रह्मणैक्यमाह -- अहमित्योमिति । अहमित्युक्ते यत्प्रतीयते शबलं तत्तथा न किंत्वोमोंकारलक्ष्यं तुरीयं ब्रह्मेत्यर्थः । ओंकारवाच्यत्वं वारयति - तत्सद्यत्परं ब्रह्मेति । शुद्धं लक्ष्यमेवाहं न तु वाच्यं वाच्ययोर्भिन्नोपाधिकयोरैक्यासंभवात् । ब्रह्मण आत्मनै-क्यवचनेनैव सिद्धेरात्मनो ब्रह्मैक्यवचनमौपचारिकैक्यनिरासार्थं परमार्थैक्यं हि सर्वश्रुतितात्पर्यसिद्धम् । ननु जीवब्रह्मणोरैक्यं सर्वश्रुतिसिद्धान्तः सर्वासूपनिषत्सु निरूपि तस्तथाऽत्रापि निरूप्यते । एतावता प्रकृतदेवतायाः किमायातमत आह— रामचन्द्रविदात्मक इति । ब्रह्मैव रामो ज्ञानैकविग्रहः । रामचन्द्रस्य ब्रह्मत्वात्तेन सह जीवस्यैक्यप्रतिपादनोपायमाह — सोऽहमिति । स प्रसिद्धोऽमुकपुत्रोऽमुकनप्ताऽहं मनुष्यादिरूपो न किंतु स ओंकाररूपस्तद्रूपो रामचन्द्ररूपः परज्योतीरूपोऽहम् । ओमित्येवमोंकारेणाऽऽत्मानं प्रसिद्धमादाय तत्त्वमस्यादिव्याख्यानन्यायेन मनसा करणेन ब्रह्म
१झ न्धरहितः स । २क. ख. छ. 'मभद्रः प° ।
For Private And Personal