Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 35
________________ १. न्यायसंमतस्म प्रत्यक्षलक्षणस्य परीक्षा। ३ अथ प्रतिपत्त्रपेक्षया बाधानुत्पादः-प्रतिपत्तुर्बाधकं विज्ञानं नोत्पद्यते तेन तदव्यभिचारि; तदयुक्तम् : प्रतिपत्तुर्बाधकज्ञानाऽनुत्पादेऽपि देशान्तरगमन-मरणादिना मणिमरीच्यादिविपर्ययज्ञानदर्शनात्। अथवा तद्विपर्ययज्ञानं तथाविधमेवोत्पन्नं स्वप्रभवस्वभावानुप्रवेशेन यद्बाधकविज्ञानोत्पादप्रतिबन्धकृत् तद्व-5 शोऽपि तथाभूत एव परेष्टसम्यग्ज्ञानवत्। ...एवं सति यदुक्तम्" यत्र च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एव असमीचीनः प्रत्ययः” [ शाबरभा० १।१।५] इत्येतदेवाऽसमीचीनम्। __ अथ प्रवृत्तिसामर्थ्येन अव्यभिचारितां वेत्सि: प्रवृत्तिसामर्थ्य फलेनाऽभिसम्बन्धः, फलं च स्रक्चन्दनवनितोदकादि, तेषु10 सत्यफलनिष्पत्तेः तेषु फलोपचारः तद्देहसम्बन्धः प्रवृत्तिसामर्थ्यम्। प्रवृत्तिः कायस्था क्रिया तत्सामर्थ्यम् अव्यभिचारितां गमयति । तत्किम् अवगतम् , अनवगतं वा ? यदि नावगतम् : तद् 'अस्ति' इति कथं वेत्सि ? अथाऽवगतम् ; तवगतरव्यभिचारिता कथमवगम्यत इति पूर्वोक्तमनुसर्त्तव्यम् । 15 उदकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्य अव्यभिचारिता व्यवस्थाप्यते; किं तत्प्रतिभातोदकप्राप्त्या, आहोस्वित् तज्जातीयोद[क]प्राप्त्या, तवंशजजलप्राप्त्या वा? तद्यदि प्रतिभातोदकप्राप्त्या; तदयुक्तम् ; प्रतिभातोदकस्य अवस्थानं नोपपद्यते, झषमहिषपरिवर्तनाऽभिधातोपजाताऽवय-20 वक्रियान्यायेन प्रत्यस्तमयसंभवात् । अथ तज्जातीयोदकप्राप्त्या, एवं तर्हि असत्योदकज्ञानेऽपि जाते क्वचित्तोयमासादयन्ति पुमांसः तदप्यवितथं स्यात् । अथ तद्देशकालसंलग्नमुदकं न प्रापयति मिथ्याज्ञानम् , सम्यग्ज्ञानं तु तद्देशकालसंलग्नमुदकं प्रापयति तेन तव्यभिचारीति25 चेत् : यन्न प्रापयति तद् व्यभिचारि तर्हि मुमूर्षुपदार्थोत्पादित

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190