Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 54
________________ तत्त्वोपप्लवसिंहे दृष्टं येन तद् उपलभ्घमानम् इन्द्रियं गमयति । अथ क्रिया अन्यत्र करणसाध्या दृष्टा । सैव गमिकाऽस्तु यस्या: करणसम्बन्धोऽवगतः । न चान्यस्य सम्बन्धे अन्यस्य गमकत्वं किञ्चित्साम्याद् उपपद्यते । न जातु देवदत्तनयननीलसम्बन्धे सति यज्ञदत्तेन्द्रियं 5घटादिकमर्थम् असति सम्बन्धे करणत्वसाम्यात् प्रकाशयद् दृष्टम् । तथा, अर्थजन्याकारोऽपि विज्ञाने अनेनैव प्रकारेण पर्युदस्तो वेदितव्यः। [१३. अर्थस्यापि प्रत्यक्षजनकत्वखण्डनम् । ] तथा, अर्थोऽपि विज्ञानमुत्पादयति-अनुपजाताऽतिशयः, उपजातातिशयो वा, अव्यतिरिक्तोपजातातिशयो वा, व्यति10रिक्तोपजातातिशयो वा? तद्यदि अनुपजातातिशयः करोति; तदा सर्वदा कुर्यात् न वा करणम् अकरणं वा नोपवि(प)येत तत्स्वरूपानातिवृत्तः । तथा, अव्यतिरिक्तोपजातातिशयोऽपि न करोति, अकारकाकारस्यानुगतः। अननुगतौ वा न तर्हि तदव्यतिरिक्तोऽतिशयः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते 15तथापि नो[पपद्यते, अकारकाकारानतिवृत्तेः । अतिवृत्ती वा आयातं क्षणिकत्वम् । ततश्च नेन्द्रियार्थसन्निकर्षजं विज्ञानं प्रत्यक्षलक्षणम् ।। छ॥ [२. मीमांसकसंमतस्य प्रमाणलक्षणस्य परीक्षा।] ____ अन्ये तु अनधिगतार्थगन्तृत्वेन प्रमाणलक्षणमभिधति। ते त्वयुक्तवादिनो द्रष्टव्याः । कथमयुक्तवादिता तेषामिति चेत्; 20उच्यते-विभिन्नकारकोत्पादितैकार्थविज्ञानानां यथाव्यवस्थितकार्थगृहीतिरूपत्वाऽविशेषेऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यम् नोत्तरस्य इत्यत्र नियामकं वक्तव्यम् । अथ यथाव्यवस्थितार्थगृहीतिरूपत्वाविशेषेऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यमुपपद्यते न प्रथमोत्तरविज्ञानस्य; तदा अनेनैव न्यायेन प्रथमस्याय25प्रामाण्यं प्रसक्तं गृहीतार्थग्राहित्वाऽविशेषात् । यथा एकनीलस्वलक्षणावभासितयुगपदुत्पन्नानेकनीलविज्ञानानां नीलैकार्थ

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190