Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 143
________________ ११. उपमानप्रामाण्यस्य निरासः । १११ " वा न वा ? तथदि उपलब्धिलक्षणप्राप्तम् अवगतं तर्हि । अवगतपूर्व यद् भवति गवय पिण्डदर्शनानन्तरं तत् स्मरणान्नातिरिच्यते । अथ उपलब्धिलक्षणप्राप्तमपि नोपलभ्यते ; तदा गवयपिण्डेsपि तस्य ग्रहणं नास्ति । तदग्रहणे पिण्डमात्रग्रहणे सति 5 भवति 'मदीया गौः अनेन सदृशी ' इति, तदास्व ( श्व) विषयमपि स्यात् ' मदीयोऽनेन सदृशः ' इति । अथ अनुपलब्धिलक्षणप्रासम्; तर्हि तस्य कचिदपि ग्रहणम्, ततश्च महिष्यादिदर्शनेऽपि ' मदीया गौरनेन सदृशी, अश्वो वा मदीयोऽनेन सदृश: ' इत्यु[प]प्लवः स्यात् । 10 अथ विषाणाद्यवयवाः सादृश्यशब्दवाच्याः; ते च अवगता एव तेषु यद्भवति उत्तरकालं विज्ञानं तत् स्मृतिरूपता मतिपतति । अथ गोगवयसामान्यं सादृश्यशब्दवाच्यम्: तच्चानुपपन्नम्, यथा च न संभवति तथा प्रागेव आवेदितम् । भवतु 15 नाम, किं तदुपलब्धिलक्षणप्राप्तं वा - पूर्ववद्विभज्य दूषणं वक्तव्यम् । अथ धर्मान्तरम् ; तदपि ऐन्द्रियकम्, अतीन्द्रियं वा ? तयदि ऐन्द्रियकम् तदा तस्य पूर्वोपलम्भे सति उत्तरकालभावि यत् तस्य विज्ञानं न तत् स्मरणाकारतां परित्यजति । 20 ( अथ तदुपलब्धिलक्षण [म] प्राप्तम् ; न तर्हि तस्य कचिदपि ग्रहणम् । तदग्रहणे न गवयदर्शने सति मदीया गौरनेन सदृशी ' इत्यादिज्ञानेन शक्यते भवितुम् । भवने वा गवय(या) दर्शनेऽपि स्यात् ।

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190