Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 153
________________ १४. शब्दप्रामाण्यस्य निरासः । १२१ ततश्चैक एव वर्णात्मा जगति संजातः । तस्य गोऽर्थवाचकत्वं न युज्यते सुपविभत्त्यनुपपत्तेः । ___ नापि वर्णानां नित्यत्वप्रत्यायकं प्रमाणमस्ति , एवं प्रत्यक्षादीनामप्रामाण्यप्रतिपादनात् । तीव्रमन्दात्मतया गवर्णस्य नानात्वोपलब्धः गकारोऽपि भेदवान् न गकारे(रे) 5 कत्वम्। अथ व्यञकवशेन तीव्रमन्दादिवुडेरुत्पत्तिः न गवर्णस्य भेदोऽस्ति; तदयुक्तम् , गवर्ण एव प्रतीयते तीव्रमन्दाद्यात्मतया न व्यञ्जकानि गवर्णबुद्धिर्वा । यदि व्यञ्जकभेदेन तीनमन्दादिभेदपरिकृप्तिः क्रियते गवर्णात्मा तु न भिद्यते; तदा10 गकारादिविभागोऽपि व्यञकभेदनिबन्धनोऽभ्युपगन्तव्यः , वर्णात्मा त्वेक एव । ततश्च गवार्थप्रतिपत्तिन प्राप्नोति एकस्मिन् वर्णे सुपविभत्तयनुपपत्तेः। किंच, भिन्नाकारतया प्रतीयमानस्य यद्येकत्वमभ्युपगम्यते ; नानेक जगत् स्यात्, अभिन्नात्मके च जगति मान-15 मेयव्यवस्थैव हीयते। न च नित्यस्य अनुपजातविकारस्य विज्ञानोदयदानसामर्थ्यमस्ति । __ अथ क्रियते ; किमनुपजातातिशयेन वा, अव्यतिरिक्तोपजातातिशयेन वा, व्यतिरिक्तोपजातातिशयेन वा? तद्यदि अनुपजातातिशयेन क्रियते ; तदा सर्वदा कुर्यात् एक-20 स्मिन् वा काले कुर्यात् तद्देहमात्रानुबन्धेना(न)' कालविलम्बनायोगात् । अथ अव्यतिरिक्तोपजातातिशयेन क्रियते; तथापि सनातना वर्णाः, अव्यतिरिक्तातिशयकरणपक्षे स एवोपजायते , फलानिष्पत्तिकरणखरूपाऽनतिवृत्तेः।। १. यद्यत्र 'नाकाल ' इत्येव शुद्धः पाठः स्यात् तदा ईषत्कालार्थकम् 'आ' पदं सन्धिगतं बोध्यम् । 25 १६ त.

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190