________________
१४. शब्दप्रामाण्यस्य निरासः । १२१ ततश्चैक एव वर्णात्मा जगति संजातः । तस्य गोऽर्थवाचकत्वं न युज्यते सुपविभत्त्यनुपपत्तेः । ___ नापि वर्णानां नित्यत्वप्रत्यायकं प्रमाणमस्ति , एवं प्रत्यक्षादीनामप्रामाण्यप्रतिपादनात् । तीव्रमन्दात्मतया गवर्णस्य नानात्वोपलब्धः गकारोऽपि भेदवान् न गकारे(रे) 5 कत्वम्।
अथ व्यञकवशेन तीव्रमन्दादिवुडेरुत्पत्तिः न गवर्णस्य भेदोऽस्ति; तदयुक्तम् , गवर्ण एव प्रतीयते तीव्रमन्दाद्यात्मतया न व्यञ्जकानि गवर्णबुद्धिर्वा । यदि व्यञ्जकभेदेन तीनमन्दादिभेदपरिकृप्तिः क्रियते गवर्णात्मा तु न भिद्यते; तदा10 गकारादिविभागोऽपि व्यञकभेदनिबन्धनोऽभ्युपगन्तव्यः , वर्णात्मा त्वेक एव । ततश्च गवार्थप्रतिपत्तिन प्राप्नोति एकस्मिन् वर्णे सुपविभत्तयनुपपत्तेः।
किंच, भिन्नाकारतया प्रतीयमानस्य यद्येकत्वमभ्युपगम्यते ; नानेक जगत् स्यात्, अभिन्नात्मके च जगति मान-15 मेयव्यवस्थैव हीयते। न च नित्यस्य अनुपजातविकारस्य विज्ञानोदयदानसामर्थ्यमस्ति । __ अथ क्रियते ; किमनुपजातातिशयेन वा, अव्यतिरिक्तोपजातातिशयेन वा, व्यतिरिक्तोपजातातिशयेन वा? तद्यदि अनुपजातातिशयेन क्रियते ; तदा सर्वदा कुर्यात् एक-20 स्मिन् वा काले कुर्यात् तद्देहमात्रानुबन्धेना(न)' कालविलम्बनायोगात् ।
अथ अव्यतिरिक्तोपजातातिशयेन क्रियते; तथापि सनातना वर्णाः, अव्यतिरिक्तातिशयकरणपक्षे स एवोपजायते , फलानिष्पत्तिकरणखरूपाऽनतिवृत्तेः।।
१. यद्यत्र 'नाकाल ' इत्येव शुद्धः पाठः स्यात् तदा ईषत्कालार्थकम् 'आ' पदं सन्धिगतं बोध्यम् ।
25
१६ त.