________________
१२२
तत्त्वोपप्लवसिंहे
अथ व्यतिरिक्तोपजातातिशयेन क्रियते; तस्यातिशयः कथम् ? यो यस्य केनापि सम्बन्धन न सं(न्धेन संबन्ध्यते स तस्यातिशयः । यदि च अन्तर्हितवर्णस्मरणविशिष्टोऽन्त्यो वर्णः पदम् तस्यापि स्मरणकाले तिरोहितत्वादवाचकत्वम्5" तस्य व्यञ्जकानां क्षणिकत्वात् क्षणोपलब्धिः इति वचनात् । यदि वर्णा व्यञ्जकैर्व्यज्यन्ते तदा समानदेशावस्थितं समानेन्द्रियग्राहयाणां प्रतिनियतव्यञ्जकत्वेनेष्टम् एकान्तर्गतोदककनकादीनां वदन्ति वैशेषिकाः । (2)
अथ अनित्या वर्णाः पदसंज्ञा भवन्तीति चेत् ; तत्रापि किं 10व्यस्ताः, समस्ता वा ? तद्यदि व्यस्ताः; तदा गकारौकारविसर्जनीयान्यतमे वर्णे न विभत्त्युत्पादोऽस्ति , उत्पादे वा एको वर्णः वाचकः स्यात् - वर्णान्तरोचारणानर्थक्यम् । ___ अथ वर्णसमुदायः पदम् ; प्रतिक्षणध्वंसिनां समुदायार्थी वक्तव्यः, बहूनामवस्थितरूपाणां समुदायो लोके दृष्टः, न च 15वर्णानां भूयस्त्वमस्ति उक्तान्न्यायात् । किंच अन्त्यवर्णग्रहणानन्तरं पूर्ववर्णस्मरणम् , पूर्ववर्णस्मरणानन्तरम् अन्त्यवर्णे ज्ञानम् , ततश्चास्य अर्थप्रतिपत्तिकाले पदं [न] विद्यते तेनाऽपदिकाऽर्थप्रतिपत्तिः स्यात् ।
न च कार्यरूपता वर्णानां विद्यते। सती सत्ता संवेद्यते। 20विज्ञानोत्पत्तेः पूर्व वेद्यस्य सत्ता, पश्चाविज्ञानम् । तद्वेद्यं किम्अधुनोत्पन्नं विषयतां याति, चिरोत्पन्नम् , अनुत्पन्नं वा ? नालमालोचयितुं ज्ञानम्, तत्स्वरूपमात्रास्तित्व विधायकत्वेन तदुत्पत्तेः।
न च तत्कारणं विद्यते । ननु प्रयत्नादिकं विद्यते; तद25युक्तम् , तेषां प्रयत्नादीनां स्वरूपं कथं गृहयते - किं सत्तामात्रेण, कारकत्वेन वा ? तद्यदि सत्तामात्रेण तदा जनकं रूपं न स्यात् ।