________________
१४. शब्दप्रामाण्यस्य निरासः । १२३ अथ कारकत्वेन गृहयते; किम् आत्मजनकत्वेन , आहोस्विद् अन्यजनकत्वेन ? तद्यदि आत्मजनकत्वेन गृहयते; तदात्मा तेनोत्पाद्यते न वर्णः । अथ अन्यजनकत्वेन अवधायेते; तदा अन्यस्य सत्ता सिद्धा। ता(नहया)क्षिप्तान्यसद्भाव एव सद्भावोऽस्याध्यवसीयते, ततः तत्समानकाली. 5 नत्वेन हेतुफलभावाऽसिद्धिः।
किंच, पूर्वापरभावेन हेतुफलभावः, किं वा पूर्वापरग्रहणेन ? तद्यदि पूर्वापरभावेन हेतुफलभावः तदा ज्ञानं विना ' अस्ति' कथं ज्ञायते ? ज्ञानाभावेनाऽज्ञाने किं पूर्वोत्पन्नौ सहोत्पन्नौ वा ? अथ पूर्वापरग्रहणेन हेतुफलभावव्यवस्था10 इति; तयुक्तम् , अनियतं ग्रहणं दृष्टम् - कार्य दृष्टा कारणं गृह्णाति , कारणं दृष्ट्वा कार्य गृह्णाति , उभयं च युगपत् गृह्णाति। एवं च स्थिते न हेतुफलभावविनिश्चयोऽस्ति । तदभावान्नाsनित्या वर्णाः पदं भवितुमर्हति । ___ अथ वर्णेभ्योऽर्थान्तरभूतं पदं वर्णव्यङ्ग्यस्फोटरूपमभ्यु-15 पगम्यते। वर्णानां किल अर्थप्रत्यायकत्वं व्यस्तसमस्तानां संभवति, अस्ति च सा अर्थप्रतिपत्तिः तेन अर्थान्तरभूतं वर्णेभ्यः पदं विद्मः । अभिन्नाकारा च प्रतिपत्तिर्वर्णेष्वनुपपन्ना तेन वर्णेभ्यो भिन्नम् अभिन्नाकारं पदमध्यवसीयते ।
यत्तावदुक्तम् - " अर्थप्रतिपत्त्यन्यथानुपपत्त्या पदमव-20 गम्यते " तदयुक्तम् , अर्थापत्तेः प्रामाण्यमेव नास्ति । यथा च न विद्यते तथा प्रागेव प्रपश्चितम् । न च पदेन सह प्रतिबद्धा अर्थप्रतिपत्तिः अवगतपूर्वा येन अन्यकारणपरिहारेण पदं बोधयति । प्रत्यक्षं च प्रमाणमेव न भवति । कथं तत् पदप्रतिपादनाय अलम् ? न च नित्यस्य विज्ञानाद्यर्थक्रियाकरण-25