________________
१२४
तत्त्वोपप्लवसिंहे
सामर्थ्यमस्ति । एवं लक्ष्यभूतं पदं न विद्यते । तदभावान्निविषयं पारमार्थ(मर्ष) लक्षणमिति ।
अपि च, यानि लक्षणपराणि सूत्राणि तेषां लक्षणं विद्यते , न वा? यदि विद्यते । तत्रापि अन्यद् अत्रापि अन्यद् 5इत्यनिष्ठायां च न किंचित् पदं ज्ञानं(तं) स्यात् । अथ न विद्यते ; किमेवं तर्हि तेषां साधुत्वं न विद्यते ?
अथ लक्षणाभावेऽपि तेषां साधुत्वं विद्यते; एवं गावीगोणी-गोपुत्तलिकेत्येवमादीनामपि अपभ्रंसा(शा)नां लक्षणाभावेऽपि साधुत्वं भविष्यति । अथ लक्षणाभावान्न गाव्या10दीनां साधुत्वम् । तदा सूत्रपदानामपि तद्भावादेव असाधुत्वम् । अपि च, यदि नाम लक्षणविकलता शब्दस्य; तदा किं भवति ? किमुच्चारयितुर्मुखभङ्गः संपद्यते, शब्दस्य वा अवाचकत्वम्, अर्थस्य वा रूपविपर्यासो जायते , किं वा अपशब्दप्रतिपादितार्थस्य अर्थक्रियाकर्तृत्वं हीयते, अपशब्दो15च्चारणे सति अमङ्गलोदयो वा भवति ? ।
तद्यदि तावत् प्रवकमुखभङ्गो भवति गावीशब्दोच्चारणे सति; तदैते बहुलं गावीशब्दोच्चारणं कुर्वाणाः समुपलभ्यन्ते प्रवक्तारः, न च तेषां मुखभङ्गः समुपलभ्यते ।
अथ गावीशब्दस्य वाचकत्वं नोपपद्यते; तदयुक्तम् , 20गावीशब्देन बहुलं व्याहरन्ति प्रमातारः। अथ गोऽर्थप्रतिपित्सूनां गावीशब्दश्रवणानन्तरं गोशब्द स्मृतिरुपजायते स च गवाद्यर्थवाचक इति चेत् ; तदयुक्तम्, म्लेच्छादीनां साधुशब्दपरिज्ञानाभावात् कथं तद्विषया स्मृति: ? तदभावे न गोऽर्थप्रतिपत्तिः स्यात् । 25 अथ अर्धस्थ रूपविपर्यासो भवति। तद्युक्तम् , न गावीशब्देन अभिधीयमानस्य गोरूपता व्यावर्त्तमाना दृष्टा । अथ