________________
१४. शब्दप्रामाण्यस्य निरासः ।
१२५
अर्थक्रियाकर्तृत्वं हीयते; तद्युक्तम्, गावीशब्देन अभिधीयमानस्य वाहदोहप्रसवसामर्थ्य नातिवर्तते गोपिण्डस्य । अथ गावीशब्दोच्चारणादमङ्गलोदयो भवति , न तु वाचकत्वं निराक्रियते असाधुशब्दस्य । तदुक्तम् - " अपशब्दोनुमानेन वाचकः कैश्चिदिष्यते ।
5 वाचकत्याऽविशेषेऽपि नियमः पुण्यपापयोः ॥" तदयुक्तम् , तेन सह प्रतिबन्धाभावात् । न चापोस्तित्वग्राहक(?) प्रमाणमस्ति । अन्यथैव काले च न म्लेच्छितिव्यमिति नियमोऽभ्युपगम्यते । न च शुद्धम् , अन्यत्र पण्डितानामपि व्यवहारोद्यदानदर्शनात् ।
10 तदेवमुपपुतेष्वेव तत्त्वेषु अविचारितरमणीयाः सर्वे व्यवहारा घटन्त इति ।
ये याता नहि गोचरं सुरगुरोः बुद्धेर्विकल्पा दृढाः, प्राप्यन्ते ननु तेऽपि यत्र विमले पाखण्डदर्पच्छिदि। भश्रीजयराशिदेवगुरुभिः सृष्टो महार्थोदयः - 15 तत्त्वोपल्लवसिंह एष इति यः ख्यातिं परां यस्थिति ॥ पाखण्डखण्डनाभिज्ञा ज्ञानोदद्धिविवर्दिताः। जयराशेर्जयन्तीह विकल्पा वादिजिष्णवः ॥ छ ।
संवत् १३४९ मार्ग० वदि ११ शनी धवलकके महं० नरपालेन तत्त्वोपल्लवग्रन्थपुस्तिका लेखीति । भद्रं ॥
wwwvvvvm
20
१७त.