________________
१२०
तत्त्वोपप्लवसिंहे
[६४. विवक्षासूचकत्वेन शब्दप्रामाण्यं स्वीकुर्वतां मतस्य खण्डनम् । ]
अथ विवक्षासूचकत्वेन लिङ्गभूतस्य प्रामाण्यम् । तदुक्तम्" विवक्षाप्रभवा हि शब्दाः तामेव संसूचयेयुः" इति ।
तदेतदयुक्तम् , यथा हेतुफलभावो नास्ति सौगते मते 5तथा प्रागेव प्रपञ्चितम् ॥ छ । [$ ५. साधुपदादर्थप्रतिपत्तिं वर्णयतां वैयाकरणानां मतस्य निरासः । ]
अन्ये तु साधुपदशब्दादर्थप्रतिपत्तिं वर्णयन्ति । साधुत्वं च लक्षणयोगित्वेन। लक्षणं च सूत्राण्येव, लक्ष्यं गौरित्यादिपदम् ।
अथ किमिदं नाम यल्लक्षणेन परमर्षिगदितेन सूत्रकलापेन 10लक्ष्यते ? किं गकारादयो वर्णाः, वर्णेभ्योऽर्थान्तरं वा पदं स्फोटरूपम् ? तद्यदि वर्णाः; ते किं नित्याः सन्तः पदसंज्ञा भवन्ति, उत उपजननधर्मका: ? तद्यदि नित्याः कूटस्थाः सन्तो वर्णाः पदसंज्ञा भवन्ति : तत्र किं व्यस्ताः, समुदिता वा ? तद्यदि व्यस्ताः; सनातना एते पदसंज्ञा भवन्ति , तदा गवणेनैव 15केवलेन गोऽर्थप्रतिपादनं क्रियते , ओकारेण वा अर्थप्रतिपादनं क्रियते। ततश्च पूर्वापरवर्णोचारणानर्थक्यम् । न चात्रैकस्मिन् वर्णे विभक्त्यन्तता अस्ति , अपि तु वर्णकदम्यके विभक्त्युत्पादाभ्युपगमात् ।
अथ समुदितानां पदसंज्ञा। तद्यु(दु)क्तम् – “बहूनां संघा20तशब्दवाच्यत्वम्, न हथेकस्मिन् संघातशब्दप्रयोगोऽस्ति ,
अपि तु गकारौकारविसर्जनीयेषु समुदायशब्दः प्रयुज्यते ।" तदयुक्तम्, वर्णानां नानाता विद्यते। वर्णो हि अवर्णात् वर्णात्मतया व्यावर्त्तते वर्णान्तरात्तु कथं व्यावर्तते ? किं वर्णाकारतया अवर्णात्मतया वा ? तद्यदि वर्णाकारतया व्यावर्त्तते : 25तदाऽन्येषां वर्णरूपता न प्राभोति नीरतीरादेरिव । अथ अवर्णास्मतया व्यावर्त्तते । तदा[s]वर्णात्मता व्यावर्त्तते उक्तानामिव ,