________________
१४. शब्दप्रामाण्यस्य निरासः ।
११९ धानेन, अन्यत्र तु कारकवैकल्यान्नैव संपत्स्यते । नचैतावता प्रमाणं चोदनाजनिता बुद्धि: ।
I
किंच, बाधारहितत्वमपि किम्-अशेषपुरुषापेक्षया, कतिपयपुरुषापेक्षया वा ? यद्यशेषपुरुषापेक्षया; तदावगन्तुं न शक्यते, परचित्तवृत्तीनां दुरन्वयत्वात् । अथ कतिपय पुरुषापेक्षया बाधा- 5 रहितत्वम् ; तदाऽनैकान्तिको हेतुः - यथा असत्योदके जातोदकबुद्धि: तस्माद्देशात् देशान्तरं यदा प्रयाति तत्रैव दशार्धतामुपयाति, नच तस्य बाधकं विज्ञानमुत्पन्नम् । किमेतावता तत् प्रमाणं भवतु ? अथवा चोदनाजनितविज्ञानस्य निर्विषयत्वमेव भ्रान्तत्वम्, चोदनाजनितविज्ञानसमानकालीन कर्त्तव्यतारूपा - 10 र्थस्याऽसंभवात् । संभवे वा चोदनावचसो वैकल्यम्, वितानक्रियाविलोपः । अथ न विद्यते कर्त्तव्यतारूपोऽर्थः कथं चोदनावचनोद्भूतं विज्ञानं न मिथ्या ? अन्यथा केशोण्डुक संविदो मिथ्यात्वं न भवेत् । अथ तस्या [ : ] प्रतीयमानार्थाऽसंभवेन मिथ्यात्वम् ; तदिहापि तदेवास्तु |
15
अथ चोदनाजनितविज्ञानार्थस्य पुनः सद्भावो भवति तेन तस्य यथार्थत्वम् । न तु केशोण्डुकविज्ञानस्य कदाचिदपि सद्भा वोऽस्ति । सोऽयं विषभक्षणेन परं प्रत्याययति तपस्वी । चोदनार्थस्य पश्चाद्भवनं तद्विज्ञानानुपयोगि, तस्मिन् काले ज्ञानस्य अस्तमितत्वात् विज्ञानकाले च अर्थस्य (स्था) संभवात् ।
20
अथवा, इयमेव बाधा यदुत असंभाव्यमानार्थस्य प्रतिपादकत्वं यथा तन्तु तुरि-कारकोपनिपाते सति वस्त्रादिकार्यमुपजायमानं दृष्टम् । पुनः पटार्थिने उपदेशो दीयते - 'तन्तूनामुपादानं कुरुष्व' इति । न त्वेवं सप्ततन्त्ववदातकर्मणोः साध्यसाधनसम्बन्धावधारणम्, नापूर्वम्, येनात्र उपदेशस्य साफल्यं भवति 125 एवं तावदुक्तेन न्यायेन शब्दानां वाचकत्वेन प्रामाण्यं न युज्यते । १. मरणम् - दि०