________________
११८
तत्त्वोपप्लवसिंहे
न च अस्मर्यमाणकर्त्तृकत्वेन वेदशब्दानामपौरुषेयत्वसंसिद्धि:, अन्यथापि अस्मर्यमाणकर्तृकत्वमुपपद्यते केनापि विदग्धमतिना वेदसन्दोहमुत्पाद्य आत्मा अपहूयते - 'नाहं वेदानां विधाता' इति ।
5 भवतु वा अपौरुषेयो वेद: : प्रामाण्ये किमायातम् ? अथ पुरुषव्यावृत्त्या तद्दोषव्यावृत्तिनिबन्धनं प्रामाण्यम्: तद्व्यावृत्त्या तद्गुणव्यावृत्तिनिबन्धनमप्रामाण्यं किन्नेष्यते ? अथ पुरुषगतगुणदोषव्यावृत्तौ निसर्गगुणानुवेधेन प्रामाण्यमिष्यते : पुरुषगुणदोषव्यावृत्तौ निसर्गदोषानुवेधेन अप्रामाण्यं किन्न 10 गीयते ? अपि च यथा अपौरुषेयत्वे सत्यपि रागादिदोषसम्बन्धिता उपलभ्यते, तथा वेदेऽपि भविष्यति ।
किंच, अपौरुषेयत्वेन कर्त्तृदोषापगमः कृतः, श्रोतृदोषास्तु केनापनीयन्ते । तथा हि - अर्थप्रतिपत्तौ तानपेक्ष्य विपरीतां प्रतिपत्तिमभिनिर्वर्त्तयिष्यति । ततश्च नित्यानामपि कर्त्तृकर्मणां 15दुष्टसहकारिकारणानुवेधेन विपर्ययादिज्ञानहेतुत्वमुपपद्यते न वाक्यानां प्रमाणप्रतिलम्भः ।
यदप्युक्तम् - ' देशान्तरादावबाध्यमानत्वात् प्रमाणं चोदनाजनिता बुद्धि:'- तदयुक्तम्, स्मृतेर्बाधारहितत्वेऽपि अप्रमाणत्वात् ।
20 किंच, बाधाशब्देन विपरीतविज्ञानमपदिश्यते तच्च नोत्पद्यते किं चोदनाजनितविज्ञानस्य यथार्थत्वेन उत तदुत्पादककारणवैकल्येन इति सन्दिह्यते ।
अपि च, बाधारहितत्वेऽप्यप्रामाण्यं दृष्टं - बाधकविज्ञा• नोत्पत्तेः पूर्वम् । बाधाप्युपजायमाना कालविकल्पेन उपजायते25 क्वचिदर्धमासेन कचिन्मासव्यवधानेन कचिच्च अद्वयत्रयव्यव