________________
१४. शब्दप्रामाण्यस्य निरासः ।
११७
प्रमेयत्वस्य व्यावृत्तिरस्ति । अथ कृतकत्वम् । तदेव गमकं व्यावृत्तत्वात् । न हथेकस्य व्यावृत्तौ अन्यस्य व्यावृत्तिरस्त्यति. प्रसंगात् ।
किंच, साध्यविरुद्ध हेतो:(तौ) किं विशेषणोपादनम् , तद्विपरीते वा ? तद्यदि विरुद्ध ; तदाऽनर्थक विशेषणोपादा- 5 नम् । अथ अविरुद्धेप्येवमेव - नहि विशेषणेन विरुद्धस्वभावता व्यावर्त्तते, यथा कृतकत्वविशेषणोपादानेऽपि न चाक्षुषत्वस्य शब्दे वृत्तिलाभः । तथा देशकु(का)लोच्छेदाभावविशेषणोपादानेऽपि अस्मर्यमाणकर्तृ[क]त्वस्य न विपक्षाद व्यावृत्तिरस्ति । असिद्धोप्ययं हेतुः यस्मात्स्मरन्ति एव कर्तारं10 काणादाः। तथा लौकिका अपि बहुलं वक्तारो भवन्ति - 'ब्रह्मणा वेदाः प्रणीता:' इति । अपि च किमशेषजनस्मरणनिवृत्तिरिह हेतुत्वेन विवक्षिता, आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्तिः ? तद्यदि सकलजनस्मरणविनिवृत्तिः; तदाऽसिद्धा, अवधारयितुमशक्यत्वाच अर्वाग्भागविद्भिः। अव-15 धारणे वा त एव सर्वज्ञाः स्युः अर्वाग्भागविदो न भवेयुः। .
अथ कतिपयपुरुषापेक्षया; तदानैकान्तिको हेतुः, विद्यमानकर्तृकेष्वपि कर्ता न स्मर्यते कैश्चित् ।
अन्यच्च , कतिपयैः पुरुषैर्न स्मर्यते - अर्थादापद्यते - पुरुषान्तरस्मर्यमाणकर्तृको वेदः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञा-20 विषयत्वात् । न च पुरुषजन्यत्वेन वेदस्याऽप्रामाण्यम् , अपि तु पुरुषदोषोत्पाद्यत्वेन । अतः स एव अपनेयः न पुरुषव्यापारः। अथ पुरुषस्य दोषाधिकरणत्वे तजन्यत्वे दोषजन्यत्वमप्याशंक्थत इति चेत् । यद्येवम् इन्द्रियाणामपि दोषाधिकरणत्वेन तदुत्पादितविज्ञानानामप्रामाण्यं समाशंक्यत इति सर्वत्र प्रा-25 माण्यानास्वा(श्वासः स्यात् ।