________________
११६
तत्त्वोपप्लवसिंहे
"
[$ ३. अपौरुषेयत्वेन वेदस्य प्रामाण्यं स्वीकुर्वतां मतस्य व्युदासः । ] अन्ये तु कुमतिमतानुसारिणो वदन्ति - " वेदस्य प्रामाण्यमन्यथा - अपौरुषेयत्वेन । पुरुषा हि रागादिविपरीतचेतसो विषरीतमुपपादयन्ति न च वेदविधातृसंभवोऽस्ति । तदुक्तम्वेद: अस्मर्यमाणकर्त्तृ[क] त्वात् व्योमादिवत् । वेदवेधसोऽपगमे तदायत्ता दोषा व्यपगता भवन्ति । ते हि विधातृसत्तानुवर्त्तिनः तदव (प) गमे कथमवतिष्ठेरन् । तेषामपाये कथमप्रमाणमाशंक्यते वेदः । यदुक्तम् -
10
" दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्त्तुरभावात्तु दोषाशंकैव नास्ति नः ॥ "
[ तवसं० का० २८९५ ] " चोदनाजनिता वुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वात् लिङ्गासोक्काक्षबुद्धिवत् ॥ "
[ श्लोकवा. सू. २. श्लो. १८४ ] नच चोदनाजनितं विज्ञानं सन्दिग्धम्, किंस्वित् इत्यनेना15कारेणानुपजायमानत्वात् । नचेदं भ्रान्तं देशान्तरादावबाध्यमानत्वात् । यत् देशान्तरादौ वाध्यते तत् मिथ्या, यथा मरीचिनिचये अम्बुज्ञानम्, कालान्तरे च बाधा यथा आरक्तपढे हाटकविज्ञानमित्येवमादि, नचेदं भ्रान्तं तथा, तस्मादवितथम् ।
39
20
यत्तावदुक्तम् - 'नित्यो वेदः कर्त्रस्मरणात् ' ; तदयुक्तम्, कूपारामादिभिरनैकान्तिकत्वात् । तेषां हि कर्त्ता न स्मर्यते अथ च अनित्यत्वम् । अथ देशकालोच्छेदात् तत्र कर्तुरस्मरणम् ; एवं तर्हि अविशेषाभिहितेऽर्थे विशेषमिच्छतो हेत्वन्तरं नाम निग्रहस्थानम् ।
25 अथवा सत्यपि विशेषणोपादाने हेतो: विपक्षगमनं न निवारयितुं पार्यते, यथा कृतकत्वविशेषणोपादानेऽपि न