________________
१४. शब्दप्रामाण्यस्य निरासः । [$२. आप्तोक्तत्वेन शब्दं प्रमाणीकुर्वतां मतस्य निरास:।] अन्ये तु आप्तोक्तत्वेन प्रामाण्यमुशन्ति । आप्ता: साक्षाकृतधर्माणः । तैर्यदुक्तं समंमाप्तं तत्किलाविसंवादकम् ।
“ क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्' हेवसंभवात् ” । तदेतदयुक्तम् , आप्तस्य अत्यन्ताऽप्रत्यक्षतया तदायत्तताया 5 अनधिगतेः। वीतरागज्ञापकं च अनुमानं न विद्यते तस्य अप्रमाणत्वात्।
भवतु वा आप्तोक्तत्वम् ; प्रामाण्ये किमायातम् ? किं सत्तामात्रेण प्रामाण्य [म्], विज्ञानजनकत्वेन वा ? यदि सत्तामात्रेण ; तयुक्तम् ; अकारकस्य प्रामाण्याऽयोगात्। 10
अथ विज्ञानजनकत्वेन प्रामाण्यम् ; तत्किम् एकलस्य, सहकारिकारणोपचरितस्य वा ? तद्यदि एकलस्य तद्युक्तम् , स्वयमनभ्युपगमात् , क्रमयोगपद्यासंभवाच ।
अथ सहकारिक(का)रणोपचरितेन जन्यते; यद्येवं तदा सहकारिकारणं दुष्टमप्यभ्येति, तदनुरोधेन विपरीतमपि ज्ञानं15 जनयति आप्तोक्तत्वे सत्यपि। यथा अभिनवकम्बलसम्बन्धिनं माणवकं दृष्टा प्रवक्ता वाक्यमुच्चारयति - नवकम्बलकोऽयं माणवकः इति; श्रोता तु अधर्ममनःक्षोभादिना निमितेन नवत्वसंख्यायुक्तकम्बलसम्बन्धिनं प्रतिपद्यते । तथा प्रतारणवुद्धया नवत्वसंख्यायुक्तकम्बलसम्बन्धी माणवक इत्युक्ते20 अवदातकर्मानुरोधेन प्रतिपत्ता अभिनवकम्बलसम्बन्धिनं प्रत्यति , तथा वेदवाक्यानामपि अवदातेतरकर्मानुवेधेन विपरीतार्थावबोधोत्पादकत्वमुपपद्यते । तथा, भूतोपघातचेतोविक(का)रमनःक्षोभादिना वा निमित्तेन ॥ छ ।
१ शममार्गे-टि.