________________
११४
तत्त्वोपप्लवसिंहे
नापि सामयिकः शब्दार्थयोः सम्बन्धः; शब्दार्थव्यक्तीनामानन्त्याद् अभिन्नैकनिमित्तस्य चाऽसंभवात् । न च संकेतितशब्दस्य अर्थप्रतिपत्तिकाले अवस्थानं ' विद्यते । नचार्थप्रत्यायक:(क)शब्दस्य संकेतोऽवगतः, समयकरणकाले तद5भावात् । न च खकार्यसम्बन्धमन्तरेण पूर्वशब्दसम्बन्धं खासारूप्याद् (?) वाचकम् अतिप्रसंगात् ।
नापि स्व( स्वा)भाविकः शब्दार्थयोः सम्बन्धः; तद्गत्यभावात् न प्रत्यक्षेण नापि अनुमानेन । - अथ अर्थापत्त्याऽनुमीयते; साप्यनुपपन्ना, प्रत्यक्षादि10पूर्विका हि अर्थापत्तिः, प्रत्यक्षाद्यभावे तस्याप्य( तस्या अप्य ). भावः। न सा अनुमानाद् भिद्यते अर्थापत्तिः । न च अनुमानग्राह्यः शब्दार्थयोः सम्बन्धो भवद्भिः प्रतिपाद्यते। नच तदनुमानमस्ति । न च नित्यसम्बन्धस्य विज्ञानगमक(नजनक)त्वमिहोपपद्यते उक्तन्यायात् । 15 एवं च सति सम्बन्धमन्तरेण पदानां वाचकत्वं न युज्यते। तदवाचकत्वे च तत्पूर्वकवाक्यस्यापि वाचकत्वं न लभ्यते । अथ कथं न लभ्यते ? प्रसिद्धपदपदार्थसम्बन्धपूर्वकं हि वाक्यं वाचकत्वेन गीयते । तदप्रसिद्धी वाक्यस्यापि वाचकत्वं न संगच्छते । एवं चाऽवाचकत्वे वेदवाक्यानां कथं प्रामाण्यम् ? 20 अथ अप्रसिद्धपदपदार्थपूर्वकमपि वाक्यं वाचकत्वेन उगीयते; तदा सर्वप्रमातृणां वेदोपलम्भे सति वेदार्थप्रतिपत्तिः स्यात्। किंच, अदृष्टविषये वेदवाक्यानां प्रामाण्यं कथं वेत्सि? वेदैकदेशत्वेन इति चेत् ;न, अर्थवदेववाक्येन न व्य(अर्थवादवाक्येन व्य)भिचारात् - " ग्रावाण: प्लवन्ते आदित्यो वैष्णव इति 25चतुःषष्टिवर्णानालोड्य प्रजापतिः पपौ" इत्यादिना ॥छ॥