________________
१२. अभावप्रमाणस्य निरासः। १३. संभवैतियप्रमाणयोर्निरासः। ११३
अथ समानव्यावृत्त्या अवधार्यते ; सैव ज्ञातुमारब्धा-- कथं ज्ञापिका भवति ? न च एका ज्ञाप्या अन्या ज्ञापिका भवति सदुपलम्भकप्रमाणमात्रापगमस्य ज्ञापकत्वेनेष्टत्वाद् अनिष्ठादोषप्रसंगाच-सापि ज्ञापिका कथं ज्ञाता इत्यादिना।
अथ सदुपलम्भकेन अवगम्यते; हीयते तर्हि अभावाख्यं 5 प्रमाणम् , मेयाभावावगमेऽपि तदेवाऽस्तु ।
अथ अनवगतमेव मेयाभावेऽनुगमं करोति ; यद्येवं देवदत्तस्य देशान्तरे विनाशे जाते देवदत्तोपलम्भकप्रमाणपञ्चकव्यावृत्तौ देवदत्ताभावनिश्चयः स्यात्, न तु भवति प्रभुसमानस्यापि । अथ वस्तुभूतनिमित्तान्तरवैकल्ये सति न भवति :10 तदेवास्तु तन्नान्तरीयत्वात् तद्गतेः ।
अभावस्य च प्रत्यक्षप्रमाणग्राहयतां प्रतिपादयन्ति नैयायिकाः । सम्बन्धश्च विषयविषयिभावलक्षणः विशेषणविशेष्यभावलक्षणो वा। [ १३. संभवैति प्रमाणयोर्निरास:।]
15 संभवस्थ अनुमानेऽन्तरीभावसम्बन्धैकनिमित्तमर्दने (?) सति अर्थान्तरे प्रतिपत्तिरनुमानम् ॥ छ॥
ऐतियस्य चागमे अन्तर्भावः । तस्य च प्रामाण्यं न संभवति, नानुमानान्तर्गतस्य नापि खतन्त्रस्य । [१४. शब्दप्रामाण्यस्य निरास: । ]
20 [$ १. वाचकत्वेन शब्दप्रामाण्यं स्वीकुर्वतां मतस्योहलनम् । ]
एके वदन्ति - " वाचकत्वेन गोशब्दस्य प्रामाण्यम् । " तच्चासमीचीनम् , शब्दार्थगो(योः) सम्बन्धव्यतिरेकात् । न तावत्तादात्म्यलक्षणः, तयोराकारभेदात् । नापि तदुत्पत्ति लक्षणः; अर्थापायपि शब्दोदयदर्शनात् । १५ त.
25