________________
११२
तत्त्वोपप्लवसिंहे [$ १. नैयायिकसंमतस्य उपमानस्वरूपस्य खण्डनम् । ] . अन्ये तु अन्यथा उपमानं व्याचक्षते विपश्चित: - " गोगवयसादृश्यं स्वज्ञानविशिष्टमुपमानम्। संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः उपमानफलम् ।” एतच्चाऽसमीचीनम् । प्रागेव वने5चरवचनादवगतं गोसदृशो गवय इति । कोऽर्थः ? गोसदृशस्य गवय इति नाम । एवं च सर्वमेव संज्ञासंज्ञिसम्बन्धावधारणं कृतम् , नोपमानं कल्पनीयम् ।
अथ संप्लवन्यायेन कल्प्यते; भवतु, तथापि संज्ञी विद्यते संज्ञा तु न विद्यते । कोपमानं परिकल्प्येत ? 10 [६२. संशाप्रतिपत्तिविषयकमतद्वयस्य निरासः।]
एके वदन्ति - " स्वयमुच्चार्य संज्ञा प्रत्येति ।” तदयुक्तम् , संज्ञाकाले सादृश्यज्ञानस्य अनवस्थितः।
अन्ये तु - " बुद्ध युपस्थापिता संज्ञा प्रत्येति " एवमामनन्ति । तदयुक्तम् । अविद्यमानस्य विषयार्थता न लभ्यते15' न सत्तामात्रेण जनकत्वेन वा ' इत्यादिना प्रागेव उपपादितम् । प्रत्यक्षपूर्वकं च उपमानमुद्गीयते । तदभावे तत्कथं भवेदव्यभिचारः येन विज्ञानोत्पादकत्वेन उपमानता, तच्चाव्यभिचारित्वं न शक्यं(क्य)विज्ञानमिति पूर्वमेवावदितम् ॥ छ ।
[१२. अभावप्रमाणस्य निरास:।] अपरे तु अभावाख्यं प्रमाणं सदुपलम्भकप्रमाणपश्चकव्यावृत्तिरूपं व्याहरन्ति अभावविषयम् । तत्किमवगतम्, अनवगतं वा ? यदि अवगतम् तत्केनावगतम् - किं मेयव्यावृत्त्या , मानव्यावृत्त्या वा, सदुपलम्भकेन वा ? तद्यदि 25मेयव्यावृत्त्या : तद्गतिः कथम् ? अथ मानव्यावृत्त्या ; तदा इतरेतराश्रयत्वं दुरुत्तरमापद्यते ।
20