________________
११. उपमानप्रामाण्यस्य निरासः ।
१११
"
वा न वा ? तथदि उपलब्धिलक्षणप्राप्तम् अवगतं तर्हि । अवगतपूर्व यद् भवति गवय पिण्डदर्शनानन्तरं तत् स्मरणान्नातिरिच्यते ।
अथ उपलब्धिलक्षणप्राप्तमपि नोपलभ्यते ; तदा गवयपिण्डेsपि तस्य ग्रहणं नास्ति । तदग्रहणे पिण्डमात्रग्रहणे सति 5 भवति 'मदीया गौः अनेन सदृशी ' इति, तदास्व ( श्व) विषयमपि स्यात् ' मदीयोऽनेन सदृशः ' इति ।
अथ अनुपलब्धिलक्षणप्रासम्; तर्हि तस्य कचिदपि ग्रहणम्, ततश्च महिष्यादिदर्शनेऽपि ' मदीया गौरनेन सदृशी, अश्वो वा मदीयोऽनेन सदृश: ' इत्यु[प]प्लवः स्यात् ।
10
अथ विषाणाद्यवयवाः सादृश्यशब्दवाच्याः; ते च अवगता एव तेषु यद्भवति उत्तरकालं विज्ञानं तत् स्मृतिरूपता मतिपतति ।
अथ गोगवयसामान्यं सादृश्यशब्दवाच्यम्: तच्चानुपपन्नम्, यथा च न संभवति तथा प्रागेव आवेदितम् । भवतु 15 नाम, किं तदुपलब्धिलक्षणप्राप्तं वा - पूर्ववद्विभज्य दूषणं वक्तव्यम् ।
अथ धर्मान्तरम् ; तदपि ऐन्द्रियकम्, अतीन्द्रियं वा ? तयदि ऐन्द्रियकम् तदा तस्य पूर्वोपलम्भे सति उत्तरकालभावि यत् तस्य विज्ञानं न तत् स्मरणाकारतां परित्यजति । 20
(
अथ तदुपलब्धिलक्षण [म] प्राप्तम् ; न तर्हि तस्य कचिदपि ग्रहणम् । तदग्रहणे न गवयदर्शने सति मदीया गौरनेन सदृशी ' इत्यादिज्ञानेन शक्यते भवितुम् । भवने वा गवय(या) दर्शनेऽपि स्यात् ।